पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७२ अथर्वसंहिताभाष्ये त्रायमाणाम् । सह॑मानाम् । सह॑स्वतीम् । इ॒ह । हुवे॒ । अ॒स्मै । अ॒रि॒- घृ॒ऽता॑तये ॥ ६ ॥ जीवलाम् । ४ मत्वर्थीयो लः । जीवंवतीम् । जीवप्रदाम् इत्यर्थः । नघरुषाम् । न हन्तीति नघा । नघा रुषा रोषोऽस्यां सा नघरुषा । यस्याः कोपोपि न घातकस्तादृशीम इत्यर्थः । अथ वा घ परहिताम अघकारिरोषरहितां वा । स्वयं जीवन्तीम् । कदाचिदपि अ- शुष्काम इत्यर्थः । अथ वा सजीवाम | त्रायमाणाम् रक्षन्तीं स्वसेवि- नां रोगपरिहारेण रक्षाकर्त्रीम् । सहमानाम् रोगस्याभिभवित्रीम् । स- हस्वतीम् सहो बलं तद्वतीम् । एवंमहिमोपेताम् ओषधीम् पाठाख्याम् अहं व्याधिनाशकामः इह अस्मिन् शान्तिकर्मणि हुवे आह्वयामि । क- स्मै प्रयोजनाय । उच्यते । अस्मै संनिहिताय पुरुषाय | [रिष्टं ] हिंसा तदभावाय अरिष्टतातये अरिष्टकरणाय । उत्तरमन्त्रे अस्मै मृत्यो अधि ब्रूहीति मृत्युशब्दश्रवणाद् अत्रापि मृत्युः संबोध्यः । "शिवशम- रिष्टस्य करे” इति करोत्यर्थे तातिल ४ । अथ वा जीवलादयः प्र- त्येकम ओषधिविशेषाः । ओषधीम् इत्येतत् प्रत्येकं संबध्यते । इह हु- वे इति सर्वत्रान्वयः ॥ सप्तमी ॥ अधिं ब्रूहि मा रंभथा: सृजेमं तवे॒व सन्त्सर्वहाया इ॒हास्तु॑ । भवा॑शर्वी मृडतं शर्म॑ यच्छतमप॒सिध्य॑ दुरि॒तं ध॑त॒मायु॑ः ॥ ७ ॥ । अधि॑ । ब्रूहि॒ । मा । आ । र॒भ॒थः । सृज । इ॒मम् । तव॑ । ए॒व । सन् । सर्व॑ऽहायाः । इ॒ह । अस्तु । भवा॑शर्वौ । मृ॒डत॑म् । शर्म॑ य॒च्छ॒त॒म् । अ॒प॒ऽसिध्य॑ । दुःऽइ॒तम् । ध॒त्त॒म् । आयु॑ः ॥ ७ ॥ हे मृत्यो त्वम् अधि ब्रूहि । पक्षपातेन वचनम् अधिवचनम् । म- दीयोयम् इति वद । मा आ रभयाः आरम्भं मा कार्षीः । हन्तुम् 4 S has the words अरिष्टकरणाय 1S' जीवतीम् S' तघॠषाम्. 3S' ॠषा. inscrted after मृत्युः संबोध्यः instead of after अरिष्टतातये.