पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये आराम ऋ॒व्या रू॑हि॑ जी॒वात॑वे ते परि॒धिं द॑धामि ॥ ९ ॥ दे॒वाना॑म् । ह॒ति । परि॑ वा॒ । वृण॒ । पा॒रया॑मि त्वा॒ रज॑सः । उत् । । मृत्योः । अ॒पीपरम् । आ॒रात् । अ॒ग्निम् । ऋ॒व्य॒ऽअद॑म् । निःऽऊह॑न् । जी॒वात॑वे । ते॒ । परि॒ऽधिम् । धाम ॥ ९ ॥ ५७४ आ- देवानाम् रुद्रादीनां हेति: आयुधं त्वा त्वां परि वृणक्तु परिवर्जयतु हिंसां मा कुर्यात् । वा त्वां रजसः मूर्छालक्षणाद् आवरणात् पारयामि पालयामि वा । किं च त्वा त्वां मृत्योः सकाशाद् उदपीपरम् उद्ध- रामि । ४. पॄ पालनपूरणयोः । ण्यन्तस्य लुङि रूपम् । रात दूरदेश एवं ऋव्यादम् मांसाशनम् अग्निं निरौहम निरूहामि नि- र्गमयामि च । ते तव जीवातवे जीवनाय परिधिम् प्राकारं दधामि स्थापयामि च । देवयजनम् अग्निम् इति शेषः । परिधिं दधामि ॥ दशमी ॥ यत् ते॑ नियानं रज॒सं मृत्य अनवधर्ष्यम् । प॒थ इ॒मं तस्मा॒ाद् रक्ष॑न्तो॒ ब्रह्म॑स्मै॒ वर्म॑ कृण्मसि ॥ १० ॥ (३) यत् । ते॒ । नि॒ऽयान॑म् । र॒ज॒सम् । मृत्यो॒ इति॑ । अ॒नवऽध॒र्ष्यम् । प॒थः । इ॒मम् । तस्मा॑त् । रक्ष॑न्तः । ब्रह्म॑ । अ॒स्मै॒ । वर्म॑ । कृ॒ण्म॒सि॒ ॥ १० ॥ (३ ) । । हे मृत्यो ते तव संबन्धि यत् नियानम् नियान्त्यत्रेति नियानं मार्गः । कीहक् । रजसम् रजोमयम् अनवर्घृष्यम् केनापि धर्षितुम् अशक्यम् । तस्माद् उक्तलक्षणात् पथ: मार्गाद् इमं मुमूर्षु पुरुषं रक्षन्तो वयम् अस्मै मुमूर्षवे ब्रह्म परिवृढं शान्तिरूपं कर्म उदीस्तिलक्षणं मन्त्रसमूहं वा वर्म तनुत्रं कृण्मसि कृण्मः कुर्मः ॥ इत्यष्टमकाण्डे प्रथमेनुवाके तृतीयं सूक्तम ॥ १ So all our saúhità authorities. २P मृत्यो° P मृत्यो°. We with J Cr. 1 The text in S is निरोहं.