पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ० १. सू°२.] ४४० अष्टमं काण्डम् । ५७७ ध्याहर्तव्यः । ते प्राणापानौ स्थिरौ कृणोमि । जरां मृत्युं च । त्वां य- था न स्पृशतस्तथा कृणोमि । दीर्घम् आयुश्च ते कृणोमि । तथा कृ- स्वस्ति । अविनाशिनामैतत् । अविनाशं कृणोमि । कथम् एतत् सर्व घटते यमदूतेष्वासनेषु इति तत्राह । वैवस्वतेन यमेन प्रहितान् प्रे- पितान् चरतः आनयनाय व्यापारयतः सर्वान् यमदूतान् अप सेधामि दूरे निराकरोमि । मन्त्रसामर्थ्याद् इत्यभिप्रायः ॥ द्वितीया ॥ आरादरा॑ति॒ निरृतं परो ग्राहि॑ ऋ॒व्याद॑ः पिशाचान् । रक्षो यत् सबै दुर्भूतं तत् तम॑ इ॒वाप॑ हंन्मसि ॥ १२ ॥ आ॒रात् । अरा॑तिम् । निःऽतिम् । प॒रः । ग्राह॑म् । ऋ॒व्य॒ऽअद॑ । पिशाचान् । 66 रक्ष॑ः । यत् । सर्व॑म् । दुःऽभू॒तम् । तत् । तम॑ःऽइव । अप॑ ह॒न्म॒सि॒ ॥१२॥ अरातिम् अदात्रीं शत्रुभूतां वा पुरोग्राहिम पुरस्ताद् ग्रहणशीलाम एवंविधां निरृतिम पापदेवतां कलहोत्यादिकाम् । यत्रतत् कुलं कलहि भवति तन्निरृतिगृहीतम इत्याचक्षते” इति सूत्रकारवचनात् [ कौ० १३. ५] । आरात् हन्मसीति संबन्धः । निकृष्टं हन्मः । तथा ऋव्यादः साशनान् पिशाचान अप हन्मसि । एवं दुर्भूतम् दुष्टत्वम् आपन्नं यत् सर्व रक्षोस्ति राक्षसजातिरस्ति । अथ वा दुष्टं च तद् भूतं च दुर्भूतं तादृग् रक्षः तत् तम एव तमोवद् आवरकमेव । तद् अप हन्मः ॥ तृतीया ॥ मां- अ॒ग्नेष्टि॑ प्रा॒ाणम॒मृतादायु॑ष्मतो वन्वे जा॒तवे॑दसः । यथा न रिष्य अमृतः सजूरस॒स्तत् ते॑ कृणोमि तदु॑ ते॒ समृध्यताम् ॥१३॥ असे ते माम् । अ॒मृता॑त् । आयु॑ष्मतः । व॒न्वे । जात ऽवे॑दसः । यथा॑ । न । रिष्या॑ । अ॒मृत॑ः । स॒ऽजूः । अस॑ः । । ते। कृणोमि । तत् । ऊं इति । ते । सम् । ऋध्यताम् ॥ १३ ॥ १PPJ ऋष्यां:. We with Cr. ।