पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये अमृतात् अमरणाद् देवाद् आयुष्मतः चिरजीविनः । 'अग्निरायु- मान्” इति हि श्रुतिः [तै० सं० २.३.१०.३]। तथाविधमाहात्म्य- वतः अनेः सकाशात् हे नित्यादिना अपहतमाण पुरुष ते माणं वन्वे याचे । पुनः कीदृशाद् अने: । जातवेदसः जातप्रज्ञात् जातधनाद् वा । हे पुरुष त्वं च यथा न रिष्याः हिंसितो न भवेः । हिंसायाम् । अस्माद् देवादिकात लेटि आडागमः । अमृतः अ- मरण: सजू: सह प्रीयमाणश्च असः भवेः अस्तेर्लेटि अडा- पुरुष रिष गमः । तत् तादृक् शान्तिकर्म ते लदर्थ कृणोमि करोमि । तदु तदेव ते तव समृध्यताम् समृद्धं भवतु ॥ ५७४ चतुर्थी ॥ शिवे ते॑ स्तां द्यावा॑पृथि॒वी असंतापे अ॑भि॒श्रियौँ । शं ते॒ सूर्य॒ आ त॑पतु॒ शं वातो॑ वातु॒ ते हृ॒दे । शि॒िवा अ॒भि दा॑रन्तु वापो॑ दि॒व्याः पय॑स्वतीः ॥ १४ ॥ शिवे इति॑ । ते । स्ाम् । द्यावा॑पृथि॒वी इति॑ । असंतापे इत्य॑स॑मा॒ऽतापे । अभिऽश्रियौं । शम् । ते॒ । सूर्य॑ः । आ । त॒पतु॒ । शम् । वात॑ । वा॒तु॒ । ते॒ । हृदे । शि॒िवाः । अ॒भि । क्षरन्तु । त्वा॒ । आप॑ः । दि॒व्याः । पय॑स्वतीः ॥ १४ ॥ । हे कुमार [ते ] तव निक्रमणसमये । यद्वा गोदानादिभिः कर्मभिः संस्क्रियमाण पुरुष । ते तव द्यावापृथिवी द्यावापृथिव्यौ देव्यो शिवे म ङ्गले कल्याणकारिण्यौ स्ताम् भवताम् । तथा असंतापे संतापम् अकु- यौ स्तम् । अर्धश्रियौ मातीके श्रीमदे स्ताम् । तथा सूर्यश्च ते त्वदर्थ शम् सुखं यथा भवति तथा आ तस्तु प्रकाशयतु । एवं ते हृदे हृदयाय मनोनुकूलतायै वातः वायुः शम् सुखं यथा भवति तथा वानु संचरतु । तथा त्वा त्वां प्रति दिव्याः दिवि भवाः पयस्वतीः बहुभिः पयोभिः स्वावंशैरुपेतां आपः शिवाः सत्य: अभि क्षरन्तु अभि स्रवन्तु ॥ १ P इत्य॑सम्ऽापे.