पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं काण्डम् | पञ्चमी ॥ शिवास्ते॑ स॒न्त्वोष॑धय॒ उत् त्वा॑हाष॑म॒ध॑रस्या॒ा उत्त॑रां पृथि॒वीम॒भि । तत्र॑ दि॒त्यौ र॑क्षतां सूर्याचन्द्र॒मसा॑षु॒भा ॥ १५ ॥ शि॒वाः । ते॒ । स॒न्तु॒ । ओष॑धयः । उत्। त्वा॒ अ॒ार्षम् । अर्धरस्याः । उ- न॑राम् । पृथि॒वीम् । अ॒भि । तत्र॑ । त्वा॒ा । आ॒दि॒त्यौ । र॒क्षताम् । सूर्याच॒न्द्र॒मसौ । उ॒भा ॥ १५ ॥ [अ॰ १․ सू°२.] ४४० ५७९ हे कुमार ते [ तव ] ओषधयः आहारार्थम् उपयुज्यमाना ब्रीह्यादयः शिवा: सुखकरा: सन्तु भवन्तु । त्वा त्वाम् अधरस्याः पृथिव्याः सका- शाद् उत्तरां पृथिवीम अभिलक्ष्य उदाहार्षम उद्धरणम् अकार्षम् । पृथि- व्या एकस्या अपि अधरोत्तरभाव: अंशभेदेन त्रित्वाद् उपपद्यते । “ति- स्रो भूमीर्धारयन् त्रीरुँत धून्” [ ऋ०२.२७.६] तिस्रो महीरुप- राः " [ऋ॰ ७. ४७. ५ ] इत्यादिमन्त्रेषु त्रित्वस्याम्नानात् । अवममध्यमो- समभेदेन पृथिव्यास्त्रैविध्यम आम्नायते मन्त्रान्तरे । “यदिन्द्रानी अव- मस्यां पृथिव्यां मध्यमस्यां परमस्याम् उत स्थः इति [ ऋ० १.१०. ९ ] । अतः अवमस्याः सकाशात् परमाम् पृथिवीम अभिलक्ष्य उद्धर- णम् अत्र अभिधीयते । तत्र उत्तरस्यां पृथिव्याम हे बालक त्वा त्वाम आदित्यौ अदितेः पुत्रौ देवौ रक्षताम् पालयताम् । कौ नावादित्यौ इ- तितौ दर्शयति । उभा उभौ सूर्याचन्द्रमसौ । ? “ देवताइन्द्वे च " इति आनङ् आदेशः ४ ॥ "" ८८ षष्ठी ॥ यत् ते॒ वास॑ परि॒धानं॒ य नी॒वं कृ॑णुषे त्वम् । शि॒वं ते॑ त॒न्वे॒॑ तत् कृ॑ष॒मः स॑स्प॒शेंद॑णमस्तु ते ॥ १६ ॥ यत् । ते॒ । वास॑ । प॒रि॒ऽधान॑म् । याम् । नी॒वम् । कृ॒णुषे । त्वम् । शि॒वम् । ते॒ । त॒न्वे । तत् । कृ॒ण्म॒ः । स॒मऽस्प॒र्शे । अक्षणम् । अस्तु । ते ॥ १६ ॥ १ So we with all our authorities. See Rw.