पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १. सू°२.] ४४० अष्टमं काण्डम् । ५७१ हे अन्नम् अनन् बालक ते तव ब्रीहियवौ अन्नत्वेन कल्पिती शिवो स्ताम मङ्गलौ सुखकरौ भवताम् । अवलासौ शारीरबलस्य अक्षेप्तारौ । बलकरावित्यर्थः । तथाविधौ स्ताम् । तथा अदोमधूं उपयोगानन्तरं म धुरौ ॥ एवम् इष्टमाप्तिम आशास्य अरिष्टपरिहारम् आशास्ते । एतौ व्रीहियवौ यक्ष्मम शरीरगतं रोगं वि बाधेते विशेषेण पीडयतः । ए- नावेव व्रीहियवौ कुमारम् अंहसः पापाद् मुञ्चतः मोचयतः ॥ नवमी ॥ यद॒श्नासि॒ यत् पिब॑सि धा॒न्य॑ कृ॒ष्याः पर्यः । याद्यै। यद॑नाच्यं सर्व॑ते॒ अन्न॑मवि॒षं कृ॑णोमि ॥ १९ ॥ यत् । अ॒श्नासि॑ । यत् । पिब॑सि । धा॒न्य॒म् । कृ॒ष्याः । पय॑ः । यत् । आ॒द्यम् । यत् । अ॑न॒यम् । सर्व॑म् । ते॒ । अन्न॑म् । अ॒वि॒षम् । कृणोमि॒ि ॥ १९ ॥ हे कुमार त्वं यद् धान्यं कृच्छ्रद अनास अभ्यवहरसि । तथा यद् धान्यं कृच्छ्रांत पयः पयोवत्सारभूतं पिष्टमयम् अन्नं पयोमिश्रितं वा धा- न्यम् श्रीह्यादिरूपं पिबसि । यद् आद्यम् अदनीयं सुखेन भक्षणीयम् यच्च अनाद्यम् अदनान कठिनद्रव्यम् । अत्यन्तकटुतिकत्वाद् वा अनाद्यम् । सर्वम् यद् अनासीत्यादिना उक्तम् अन्नम् अविषम् निर्विषम अमृतं कृणोमि करोमि ॥ दशमी ॥ अ च वा रात्र॑ये च॒ोभाभ्यां॒ परि॑ दद्मसि । अ॒राये॑भ्यो जिघा॒तुभ्य॑ इ॒मं में परि॑ रक्षत ॥ २० ॥ (४) अर्हे । च । वा । रात्रे॑ये । च । उ॒भ्या॑म् । परि॑ । म॑सि॒ । १ So all our vaidikas and Mss. exeept P which has ॠष्याः २ BBDS csa for १. We with A K KRV. ३PJCr अनायम्. We with P. सि. Cs दध्मलि corrected into दद्मसि. We with ABSV. BDKR दध्म- So PPJCP. 1 Sayana's text too reads कृच्छ्रात्पयः, and not कृष्याः पयः.