पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ० १. सू० २.] ४४० अष्टमं काण्डम् | ५७३ कं युगम् । रूयपत्यपुमपत्यलक्षणम् अपरं युगम् । एवं हे युगले । त्रीणि युगानि चत्वारि युगानि च कुर्मः । उपलक्षणम् एतत् । पुत्र- पौत्रादिद्वारा अनेकयुगलानि कुर्मः । यद्यपि एकशतपर्यन्तं जीवनमपि मनुष्याणां न संभवति तथापि आकल्पं जीव कल्पायुष्यम् अस्तु इत्या- द्याशीदर्शनाद् दीर्घायुषि तात्पर्य न विरुध्यते । अथवा एवं योजना । हे बालक ते शतं हायनान् कृण्मः | तानेव अयुतं च हायनान् कृ- एमः | तानेव द्वे युगे कृण्म: । त्रीणि च युगानि कृण्मः । चत्वारि युगानि कृण्म इति । अयम् अभिप्रायः । तव प्रथमं क्रियमाणेन सं- स्कारविशेषेण सर्वमनुष्यसाधारणान् शतसंवत्सरान् कुर्मः | तानेव अयु- तसंख्याकान् कुर्मः । चतुर्णा युगानां संधिसंवत्सरान् विहाय युगचतुष्ट- यस्य मिलित्वा अयुतं संवत्सराः स्युः । तान् विभज्य [ द्वे ] कलिद्वाप- राख्ये | त्रीणि त्रेतासहितानि । चत्वारि कृतयुगसहितानि कुर्म इति आ- शास्यते । एवंरूपां प्रार्थनां ते प्रसिद्धा इन्द्राशी विश्वे च देवा अह- णीयमाना: ईदृक्प्रार्थना कथं कर्तु युज्यत इति हृणां लज्जां क्रोधं वा अकुर्वाणा: सन्त: [ अनु] मन्यन्ताम् अनुमतिं कुर्वताम् ॥ द्वितीया ॥ श॒रदै त्वा हेम॒न्ताय॑ वसन्ताय॑ ग्रीष्माय परि॑ि दद्मसि । वर्षाणि तुभ्यं स्योनानि॒ येषु वर्ध॑न्त॒ ओष॑धीः ॥ २२ ॥ श॒रदे॑ । वा॒ । ह॒म॒न्ताय॑ व॒स॒न्ताय॑ । ग्रीष्माय॑ । परि॑ । दु॒द्म । व॒र्षाणि॑ि । तु॒भ्य॑म् । स्य॒ोनानि॑ । येषु॑ । वर्धन्ते । ओष॑धीः ॥ २२ ॥ हे बालकत्व त्वां शरदे ऋतवे परि दयसि परिदः । परिदानं रक्षार्थ दानम् । हे शरतो असुं रक्षेति प्रयच्छाम इत्यर्थः । तावत्पर्य - न्तं जीवन्तं हेमन्ताय परिदनः । ततो वसन्ताय । ततो ग्रीष्माय च परिदः । उपलक्षणम् एतत् । सर्वेभ्योपि ऋतुभ्यः प्रयच्छामीत्युक्तं भवति । सर्वेष्वपि ऋतुषु जीवनस्य अपेक्षितत्वात् । हे बालक तुभ्यं व 1 S' तात्पर्यान्न विरुध्यते. 25 मित्वा.