पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १ सू°०२.] ४४० अष्टमं काण्डम् | ५८५ र्थः । स संबोध्यते । अथवा रिष्टं रेषो हिंसा सा यस्य नास्ति सः अरिष्टः । निरस्तहिंसं इत्यर्थ: । मृत्युकर्तृकहिंसारहित इति यावत् । ता- दृशं त्वं न मरिष्यसि मृतिं न प्राप्नोषि । दार्थाय पुनराह । न मरि- प्यसि त्वम् अतो मा बिभे: मरिष्यामीति भीति मा प्रानुहि । भीत्य - भावे कारणम् आह न वै तत्रेति । तत्र तस्मिन् शान्तिकर्मविषये त- स्मिन् शान्तिकर्मयुक्ते देशे वा । उत्तरमन्त्रे “यत्रेदं ब्रह्म क्रियते” इति वक्ष्यमाणत्वात् । न म्रियन्ते वै न प्राणं त्यजन्ति खलु । वैशब्दः प्रसि- डौ । सा च महाशान्तिकृत्सु पुरुषेषु सार्वजनीना । मा भून्मृतिः । अधमतमः प्राप्तिः किम् अस्ति सापि नेत्याह नो यन्त्यधमं तम इति । अधमं तमः मरणकालीना दुःसहा मूर्छा | तामपि नैव प्राप्नुवन्ति । [ यद्धा ] मृत्यनन्तरं दुष्कर्मभिः प्राप्तव्यं सवितृप्रकाशशून्यम अधोलोकस्यं तमित्रमं । तस्य प्राप्तिनैवेत्यर्थः ॥ पञ्चमी ॥ सर्वो वै तत्र॑ जीवति॒ गौरव॒ पुरु॑षः प॒शुः । यत्रे॒दं ब्रह्म॑ त्रि॒यते॑ परि॒धिर्जीव॑नाय॒ कम् ॥ २५ ॥ सर्व॑ः । वै । तत्र॑ । जीव॒ति॒ । गौः । अश्व॑ः । पुरु॑षः । प॒शुः । यत्र॑ । इ॒द॑म् । ब्रह्म॑ । क्रि॒यते॑ । परि॒ऽधि । जीव॑नाय । कम् ॥ २५ ॥ पूर्वमन्त्रे सोरिष्ट न मरिष्यसि न वै तत्र म्रियन्तं इति यद् उक्तं तदेव अस्मिन् मन्त्रे सोपपत्तिकं विस्पष्टीक्रियते । अर्थस्तु स्पष्ट एव । सर्वश ब्दस्य विवरणं गौरश्व इत्यादि । ब्रह्म परिवृढं महाशान्त्याख्यं कर्म । परिधि: रक्षः पिशाचादिनिवारक : प्राकारः । यथा यज्ञे अने: परिधिः एवम् । तच्च परिधानं किमर्थम् इति तत्राह जीवनाय कम इति । जीवनायेत्येतावतो नाधिकम् कम् इत्यस्य पूरणार्थत्वात् । तथा च . १P इमम्. 1S' तादृशस्त्वं for तादृश त्वम्. 2S शांतिकमपिविषये. :S शून्यमध्येलोकस्यतमिस्रं. 4S' म्रियत इति. ७४