पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८६ अथर्वसंहिताभाष्ये यास्कः । 'मिताक्षरेष्वनर्थका: कमीमिदु" इत्युक्त्वा उदाजहार । “शि- शिरं जीवनाय कम इति शिशिरं जीवनाय" इति [नि०१.१०]४ ॥ षष्ठी ॥ 66 परि॑ त्वा पातु समा॒नेभ्यभिच॒ारात् सब॑न्धुभ्यः | अ॑म॑स्रिर्भवा॒मृतो॑तिजी॒वो मा ते॑ हासिषु॒रस॑व॒ शरी॑रम् ॥ २६ ॥ परि॑ वा॒ । पा॒तु॒ । स॒मा॒नेभ्य॑ः । अ॒भि॒ऽच॒ारात् । सव॑न्धुऽभ्यः । अंम॑नि । भ॒व॒ । अ॒मृत॑ः । अति॒ऽजी॒वः । मा । ते॒ । ह॒ामि॒षुः । अस॑वः । शरीरम् ॥ २६ ॥ हे शान्त्या पुरुष वा त्वां मया कृतं शान्तिकर्म परि परितः पातु पालयताम् । कुतः सकाशात् । समानेभ्यः विद्यैश्वर्यपराक्रमैः भ्योऽन्येभ्यः । तथा सबन्धुभ्यः समानबन्धुभ्यः । अभिचारात् तत्कृतात् हिंसामयोगात् । त्वं च अमनि: अमरणशीलो भव । तथा अमृतः मृ- सदृशे- • तिरहितः अतिजीवः अतिशयितजीवो भव । ते तव शरीरम् असवः प्राणा: चक्षुरादीन्द्रियरूपा अमुख्यप्राणा: प्रसिद्धा मुख्यप्राणाश्च मा हा- सिषुः मा जह्युः ॥ सप्तमी ॥ ये मृत्यव एक॑शतं या नाष्ट्रा अंतितार्या: । मुञ्चन्तु तस्मात् त्वा॑ दे॒वा अ॒ग्नेर्वैश्वान॒रादधिं ॥ २७ ॥ ये । मृ॒त्यवः॑ । एक॑ऽशतम् । याः । ना॒ष्ट्राः । अ॒ति॒ऽार्याः । मुञ्चन्तु॑ । तस्मा॑त् । वाम् । देवाः । अग्नेः । वैश्वानरात् । अधि ॥ २७ ॥ ये प्रसिद्धा मृत्यवः हिंसका यमस्य हेतयंः स्वरशिरोव्यथादयः एकशतम् एकशतसंख्याका मुख्यभूताः सन्ति । याश्च नाष्ट्रा: नाशकारिण्य: अति- तार्या: अतितरीतव्या लङ्कनीया हिंसिकाः सन्ति । तस्मात् उक्ताद् द्वि- १BBDKKŚC: अमंत्रि. We with A RV. २ PCr अमंत्रि: We with ý J. 1 S' तयः for हेतयः 28' याभतानाष्ट्राः for याश्च नाष्ट्राः.