पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० २. सू० ३.] ४४१ अष्टमं काण्डम् | ५७९ “ उक्तो होमः । वैश्रवणतयाञ्जलिं कृत्वा जपन्नाचामयत्यभ्युक्षति | निश्यु - 'ल्मुके संघर्षति" इति [कौ०४.१] ॥ तथा शान्त्युदकाभिमन्त्रणे “चातनैर्मातृनामभिर्जुहुयात्" [शा॰क०१६] इत्यादिषु च अस्यानुवाकस्य गणमयुक्तो विनियोगोनुसंधेयः ॥ तथा वशाशमनकर्मणि पशुसंज्ञपनानन्तरं " रक्षोहणम्” इत्यनुवाकं जपेत् । सूत्रितं हि । “अथ प्राणान् आस्थापयति प्रजानन्तः [२.३४, ५] इति । दक्षिणतस्तिष्ठन् रक्षोहणम् [४.३] जपति" इति [ का° ५.७] ॥ तथा घृतकम्बलाख्ये महाभिषेके अभिषेकानन्तरं " रक्षोहणम्" इत्य- नुवाकं जपेत् । “बृहस्पतिर्महेन्द्राय चकार घृतकम्बलम्" इति प्रक्रम्य उक्तम् अथर्वपरिशिष्टे । 66 ब्राह्मणा: स्वस्ति वाच्याथ प्राङ्मुखः संविशेत् ततः । रक्षोहणम् अनुवाकं जपेत् कर्ताथ ऋत्विजः । इति ॥ तत्र प्रथमा ॥ रोहण॑ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ । शिशा॑नो अ॒ग्निः क्रतु॑भिः॒ समि॑द्ध॒ स नो॒ दिवा॒ स र॒षः पा॑तु नक्त॑म् ॥ १ ॥ र॒ऽहन॑म् । वा॒जिन॑म् । आ । जिधर्मं । मि॒ित्रम् । प्रथिष्ठ॑म् । उप॑ । या मि । शर्म॑ । शिशा॑नः । अ॒ग्निः । ऋतु॑ऽभिः । समऽइ॑द्धः । सः । नः॒ । दिवा॑ । सः । रिषः । पातु । नक्त॑म् ॥ १॥ । एतदनुवाकविनियोजकसूत्रोक्तफलकामोहं रक्षोहणम् रक्षसाम् अपह- न्तारं वाजिनम् वाजो बलं तत्साधनम् अन्नं वा तद्वन्तम् अग्निम आ जिघर्मि घृतं सर्वतः क्षारयामि । जुहोमीत्यर्थः । यहां दीपयामि समि॑िन्धे । आज्यादिनेतिं शेषः । तथा कृत्वा मित्रम् सखिभूतं प्रथिष्ठम् पृथुतरं तम् १ P प्रथिष्टम्. We with PJCrP. 3 PPJCr ॠषः 1S' दक्षिणस्तिष्ठन्. We with Kausika. 2 So S. The Ghritahamtadkaridhi in my MS. of the Paris'ishta does not contain the verse. 3S' समेधम्याज्यादिनेति.