पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९० अथर्वसंहिताभाव्ये फू" ब-

अग्निं शर्म शरणम् उप यामि उपगच्छामि । अथ वा शर्म सुखम् । ल- ब्युम् इति शेषः । सोऽग्निः शिशानः ज्वालास्तीक्ष्णीकुर्वन् । हुलं इन्दसि” इति शप: श्रौ अभ्यासस्य इत्त्वम् । आत्तम् । शा- नच् । क्रतुभिः कत्लङ्गभूतैराज्यादिभिः कर्मभिर्वा समिद्धः सम्य- ग्दीप्तः । भवत्विति शेषः । स तादृशो रक्षोहा अग्निः नः अस्मान् रिषः हिंसकाद् दिवा अहनि पातु रक्षतु । स एव अग्नि: नक्तम् रात्रौ रि- षः सकाशात् पातु । सर्वेष्वहःसु सर्वासु च रात्रिषु पावित्यर्थः ॥ द्वितीया || 8 अयो॑दंष्ट्रो अ॒र्चिषा॑ यातु॒धाना॒नुप॑ स्पृश जातवेद॒ समि॑द्धः । आ जि॒ह्वया मूर॑देवान् रभस्व ऋ॒व्यादी॑ वृ॒ष्ट्वापि॑ धत्स्वा॒सन् ॥ २ ॥ . अय॑ऽदंष्ट्रः । अ॒र्चिषा॑ । यातु॒ऽधाना॑न् । उप॑ । स्पृश॒। जा॒त॒ऽवे॒द॒ः । सम्ऽइ॑द्धः । आ । जि॒ह्वया॑ । मूर॑ऽदेवान् । र॒भस्व॒ । ऋ॒व्य॒ऽअद॑ः । वृ॑ष्ट्वा । अपि॑ । ध॒त्स्व॒ । आसन् ॥ २ ॥ 66 हे जातवेदः जातानां वेदितरने समिद्धः अस्मद्दतैराज्यादिभिः सम्य- ग्दीतस्त्वम् अयोदंष्ट्र: अयोमयदन्तयुक्तः सन् अर्चिषा ज्वालया क्रूरया यातुधानान् यातवो यातनास्ता एषु धीयन्ते यातुधानाः तान् उप स्पृश । संदहेत्यर्थः । तथा मूरदेवान् मूलेन औषधेन दीव्यन्ति परेषां हननाय क्रीडन्तीति मूरदेवाः तान् । अभिचरत इत्यर्थः । अथवा मूरा अ- मूर” इत्यत्र यास्केन “मूढा वयं स्मोऽमूढस्वम् असि ” [नि० ६.] इत्युक्तत्वात मूढाः कार्याकार्यविभागबुद्धिशून्याः सन्तो ये दीव्यन्ति ते मू- रदेवा: तान् जिह्वया ज्वालया आ रभस्व स्पृश । दहेत्यर्थः । तथा ऋ- व्यादः मांसभक्षकान् रक्षः पिशाचादीन धृष्ट्वा धर्षिता । 3 इडभा- वश्छान्दसः । "आसन् तव आस्ये : " पद्दन' इत्यादि- ना आस्यशब्दस्य आसन आदेशः & । अपि धत्स्व अपिधानं कुरु ओष्ठाभ्याम आच्छादय । भक्षयेत्यर्थः ॥ "" २P दृष्ट्वा. We with P JCP. So all our MSS. and vaidikas. 1S' 'क्ष्णकुर्वन्.