पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९२ अथर्वसंहिताभाष्ये हे अमे त्वं यातुधानस्य रक्षआदेः त्वचम् बाह्यधातुं भिन्धि द्विन्धि भिन्नां कुरु | तव च हिंस्रा अशनिः हिंसको वनों हरसा तापेन एनं यातुधानं हन्तु हिनस्तु । पूर्व त्वचः कर्तनं प्रार्थ्य तावता अपरितुष्टमना आह म पर्वाणीति । हे जातवेदः जातधन जातमज्ञ वा अग्ने यातुधान- स्य पर्वाणि शरीरग्रन्थीन् म शृणीहि प्रकर्षेण भिन्नानि कुरु । तथा कृ- ते कव्यात मांसभक्षको वृकादि: ऋविष्णुः ऋव्यम् इच्छन् एनं यातुधा- नं वि चिनोतु इतस्ततो भक्षणाय आकृष्य विप्रकीर्ण करोतु ॥ पञ्चमी ॥ यत्रे॒दान पश्य॑सि जातवेद॒स्तिष्ठ॑न्तमन उ॒त वा चर॑न्तम् । उ॒तान्तरि॑ते॒ पत॑न्तं यातु॒धानं॒ तमस्ता॑ विध्य॒ शर्वा शिशा॑नः ॥ ५ ॥ यत्र॑ । इ॒दम् । पश्य॑सि । जातऽवेद॒: । तिष्ठ॑न्तम् । अग्ने । उत | वा । चर॑न्तम् । उ॒त । अ॒न्तरि॑क्षे । पत॑न्तम् । य॒तु॒ऽधान॑म् । तम् । अस्ता॑ । वि॒ध्यः॒ । शर्वा । शिशा॑नः ॥ ५ ॥ हे जातवेदः अने त्वं यत्र यस्मिन् देशे इदानीम् अस्मिन् काले अ स्मदुपद्रवकाले पश्यसि यातुधानम् अस्मदुपद्रवकारिणं राक्षसादिकम् । कथंभूतम् इति तत्राह । तिष्ठन्तम् श्चिद् देशे स्थितिं कुर्वाणम् उ त वा अपि वा चरन्तम् एकत्र अवस्थितिम् अकुर्वाणम् उत अपि च अन्तरिक्ष आकाशे पतन्तम् गच्छन्तं तं यातुधानम् अस्ता क्षेप्ता त्वं शि- शान: तीक्ष्णः सन् शर्वा शरुणा [ विध्य ] ताडय ॥ षष्ठी ॥ य॒ज्ञैरिषु॑ सं॒नम॑मानो अग्ने वाचा शल्योँ अ॒शनि॑भिर्दानः । ताभि॑र्वध्य॒ हृद॑ये यातु॒धाना॑न् मतीचो बाहूंन प्रति॑ि भङ्खचेषाम् ॥ ६ ॥ य॒ज्ञैः । इर्ष् । स॒म्ऽनम॑मानः । अ॒ग्ने॒ । वा॒चा । श॒ल्या॑न् । अ॒शनि॑ऽभिः । ह्विानः । १D सर्वा. २PPJCr सर्वा. We with the saūhita.