पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १. सू°२.] ४४० अष्टमं काण्डम् । ५७७ ध्याहर्तव्यः । ते प्राणापानौ स्थिरौ कृणोमि । जरां मृत्युं च । त्वां य- था न स्पृशतस्तथा कृणोमि । दीर्घम् आयुश्च ते कृणोमि । तथा कृ वा स्वस्ति । अविनाशिनामैतत् । अविनाशं कृणोमि । कथम् एतत् सर्व घटते यमदूतेष्वासन्नेषु इति तत्राह । वैवस्वतेन यमेन महितान् प्रे- षितान् चरतः आनयनाय व्यापारयतः सर्वान् यमदूतान् अप सेधामि दूरे निराकरोमि । मन्त्रसामर्थ्याद् इत्यभिप्रायः ॥ द्वितीया | आरादरा॑ति॒ निरृतं परो ग्राहिँ ऋ॒व्यादः पिशाचान । रो यत् सबै दुर्भूतं तत् तम॑ इ॒वाप॑ ह॒न्मसि ॥ १२ ॥ आ॒रात् । अरा॑तिम् । निःऽतिम् । प॒रः । ग्राहि॑म् । ऋ॒व्य॒ऽअद॑ः । पिशाचान् । । 1 66 रक्ष॑ः । यत् । सर्व॑म् । दुःऽभू॒तम् । तत् । तम॑ःऽइव । अप॑ ह॒न्म॒सि॒ ॥१२॥ अरातिम् अदात्रीं शत्रुभूतां वा पुरोग्राहिम पुरस्ताद् ग्रहणशीलाम एवंविधां निरृतिम् पापदेवतां कलहोत्पादिकाम् । यत्रतत् कुलं कलहि भवति तन्त्रिऋतिगृहीतम् इत्याचक्षते” इति सूत्रकारवचनात् [कौ०१३• ५] । आरात् हन्मसीति संबन्ध: । निकृष्टं हन्मः | तथा ऋव्यादः मां- साशनान् पिशाचान अप हन्मसि । एवं दुर्भूतम् दुष्टलम् आपन्नं यत् सर्व रक्षोस्ति राक्षसजातिरस्ति । अथ वा दुष्टं च तद् भूतं च दुर्भूतं तादृग् रक्षः तत् तम एवं तमोवद् आवरकमेव । तद् अप हन्मः ॥ तृतीया ॥ अ॒म्नेष्टै प्रा॒ाणम॒मृता॒दायु॑ष्मतो वन्वे जा॒तवे॑द॒सः । यथा न रिष्या॑ अ॒मृत॑ स॒जूरस॒स्तत् ते॑ कृणोमि॒ तदु॑ ते॒ समृ॑ध्यताम् ॥१३॥ अनेः । ते । प्रा॒णम् । अमृता॑त् । आयु॑ष्मतः । व॒न्वे । जा॒तवे॑द॒सः । यथा॑ । न । रिष्या॑ । अ॒मृत॑ः । स॒ऽजूः । अस॑ः । तत् । ते । कृणोमि । तत् । ऊं इति । ते । सम् । ऋध्यताम् ॥ १३ ॥ १ PÈJ ऋष्यो: We with Cr. ७३