पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८० अथर्वसंहिताभाष्ये हे बालक ते तवं परिधानम् उपरि आच्छादनीयं यद् वासोस्ति त्वं च यां नीवं कृणुधे । नाभिदेशे संबद्ध वस्त्रं नीविरिंन्युच्यते । मध्यदेशा च्छदनम् इत्यर्थः । नीव्यपेक्षया याम् इति स्त्रीलिङ्गव्यपदेशः । तत् द्विप्रकारकं वस्त्रं ते तन्वे तव शरीराय शिवम् सुखकरं कृण्मः । तच्च वस्त्रं संस्पर्शा विषये अदूषणम् अरूद् यथा मार्दवम् अश्नुते व्याप्नोति ग च्छति तथा कुण्मः सप्तमी ॥ यत् दुरेण मर्चयता सुतेजसा वपा वपुंसि केशश्मश्रु गुंभं मुखं मा न आणैः प्र मोषीः ॥ १७ ॥ यत् । दुरेण । अर्चयंता । सुऽतेजस । वन । वर्षसि । केशऽश्मश्रु । गृभम् । मुखम् । मा । नः। आर्युः । प्र। मोषीः ॥ १७ ॥ यत् यदा हे देव सवितः संस्कारक पुरुष वा वं वफा केशानां चेता नापितः सन् मर्चयता व्यापारयता सुतेजसा शोभनतेजोयुक्तेन क्षुरेण के शश्मश्रु शिरोरोमणि मुखरोमाणि च वपसि । यद्यपि वपतिधातुर्वाज संतानार्थस्तथापि केशसमभिव्याहारात् छेदने वर्तते । तदा वपनं कुर्वन मुखम् गोदानचौलोपनयनैः संस्क्रियमाणस्य बालस्य मखं शुभम् दीनं तेजस्वि कुरु । वपने सति मुखविकाशभावाद् एवं प्रार्थयेते । नः अ स्माकं पुत्रस्य आयुर्मा म मोषीः ॥ आष्टमी ॥ शिवौ द्वे स्तां नीहियवावबलासावदोमधौ एतौ यक्ष्मं वि बधेते एतौ मुञ्चतो अंहसः ॥ १८ ॥ शिवौ । ते । स्ताम् । श्रीहिषुयव। अबलासौ । अनधौ । एतौ । यदमम् । वि । बाधेते इति । एतौ मुञ्चतः । अंहसः ॥ १६ ॥ १ B DR C गुंभै. We with A K k S P P J. २ X D & 3 cx आयुष्प for आयुः प्र. We witl A B K R V. ३ J C• गुंभ. We with P P. 1 S ’ यत् for तव ४ Syana's text in S', however, has अस्तुते । "