पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १. सू०२.] ४४० अष्टमं काण्डम् | ५७१ हे अन्नम् अनन् बालक ते तव व्रीहियवौ अन्नत्वेन कल्पिती शिवौ स्ताम् मङ्गलौ सुखकरौ भवताम् । अवलासौ शारीरबलस्य अक्षेप्नारौ । बलकरावित्यर्थः । तथाविधौ स्ताम् । तथा अदोमधूं उपयोगानन्तरं म धुरौ ॥ एवम् इष्टमाप्तिम् आशास्य अरिष्टपरिहारम् आशास्ते । एतौ व्रीहियवौ यक्ष्मम शरीरगतं रोगं वि बाधेते विशेषेण पीडयतः । ए- वेव ब्रीहियवौ कुमारम् अंहसः पापाद् मुञ्चतः मोचयतः ॥ नवमी ॥ यद॒श्नासि॒ यत् पिब॑सि धा॒न्य॑ कृ॒ष्याः पय॑ः | याद्यै यद॑नाथं सर्वं ते अन्न॑मवि॒षं कृ॑णोमि ॥ १९ ॥ यत् । अ॒श्नासि॑ । यत् । पिव॑सि । धा॒न्यम् । कृ॒ष्याः । पर्यः । यत् । आद्यम् । यत् । अंनाद्यम् । सर्व॑म् । ते । अन्न॑म् | अविषम् । कृ॒णोमि॒ ॥ १९ ॥ हे कुमार त्वं यद् धान्यं कृच्छ्राद् अम्नासि अभ्यवहरसि । तथा यद् धान्यं कृच्छ्रांत पयः पयोवत्सारभूतं पिष्टमयम् अन्नं पयोमिश्रितं वा धा- न्यम् ब्रीह्यादिरूपं पिबसि । यद् आद्यम् अदनीयं सुखेन भक्षणीयम् यच्च अनाद्यम् अदनानहै कठिनद्रव्यम् । अत्यन्तकटुतिक्तत्वाद् वा अनाद्यम् । सर्वम् यद् अश्वासीत्यादिना उक्तम् अन्नम् अविषम् निर्विषम् अमृतं कृणोमि करोमि ॥ दशमी ॥ अर्हे च वा रात्रये चोभाभ्यां॒ परि॑ दद्मसि । अ॒राये॑भ्यो जिध॒त्सु॒भ्य॑ इ॒मं मे परि॑ रक्षत ॥ २० ॥ (४) अर्हे । च । वा॒ा । रात्र॑ये । च॒ । उ॒भ्या॑म् । परि॑ । दु॒ह्म॑सि । १ So all our vaidikas and Mss. except P which has ॠप्या: for १. We with A KKR V. ३P JC अनाद्यम्. We with P. सि. Cs दध्मसि correctel into दद्मसि. We with ABSV 4.So PPJCr. 1 Sáyaņa's text too reads कृच्छ्रात्पयः, and not कृष्याः पयः, २ BBD SCS ३ BDKR दध्म-