पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ० १. सू०२.] ४४० अष्टमं काण्डम् । ५७३ कं युगम् । ख्यपत्यपुमपत्यलक्षणम् अपरं युगम् । एवं युगले । त्रीणि युगानि चवारि युगानि च कुर्मः । उपलक्षणम् एतत् । पुत्र- पौत्रादिद्वारा अनेकयुगलानि कुर्मः । यद्यपि एकशतपर्यन्तं जीवनमपि मनुष्याणां न संभवति तथापि आकल्पं जीव कल्पायुष्यम् अस्तु इत्या- द्याशीदर्शनाद् दीर्घायुषि तात्पर्य न विरुध्यते । अथवा एवं योजना । हे बालक ते शतं हायनान् कृण्मः | तानेव अयुतं च हायनान् कृ- एमः । तानेव द्वे युगे कृण्म: । त्रीणि च युगानि कृण्मः । चत्वारि युगानि कृण्म इति । अयम् अभिप्रायः । तव प्रथमं क्रियमाणेन सं- स्कारविशेषेण सर्वमनुष्यसाधारणान् शतसंवत्सरान् कुर्मः | तानेव अयु- तसंख्याकान् कुर्मः । चतुर्णी युगानां संधिसंवत्सरान विहाय युगचतुष्ट- यस्य मिलित्वा अयुतं संवत्सराः स्युः । तान् विभज्य [ द्वे ] कलिद्वाप- राख्थे । त्रीणि त्रेतासहितानि । चत्वारि कृतयुगसहितानि कुर्म इति आ- शास्यते । एवंरूपां प्रार्थनां ते प्रसिद्धा इन्द्रामी विश्वे च देवा अह- णीयमानाः ईहक्प्रार्थना कथं कर्तुं युज्यत इति हृणां लज्जां क्रोधं वा. अकुर्वाणा: सन्त: [ अनु] मन्यन्ताम् अनुमतिं कुर्वताम् ॥ द्वितीया ॥ शरदै वा हेम॒न्ताय॑ व॒सन्ताये ग्रीष्माय परि दद्मसि । वर्षाणि॒ तुभ्यं॑ स्नानि॒ येषु वर्ध॑न्त॒ ओष॑धीः ॥ २२ ॥ श॒रदे॑ । त्वा॒ । ह॒म॒न्ताय॑ व॒स॒न्ताय॑ । ग्रीष्माय॑ । परि॑ । दु॒द्म । व॒र्षाणि॑ । नु॒भ्य॑म् । स्यो॒नानि॑ । येषु॑ । वर्ध॑न्ते । ओष॑धीः ॥ २२ ॥ परिदानं । हे बालकत्व त्वां शरदे ऋतवे परि दद्मसि परिदद्मः रक्षार्थ दानम् । हे शरहतो अनुं रक्षेति प्रयच्छाम इत्यर्थः । तावत्पर्य - तं जीवन्तं हेमन्ताय परिदः । ततो वसन्ताय । ततो ग्रीष्माय च परिः । उपलक्षणम् एतत् । सर्वेभ्योपि ऋतुभ्यः प्रयच्छामीत्युक्तं भवति । सर्वेष्वपि ऋतुषु जीवनस्य अपेक्षितत्वात् । हे बालक तुभ्यं व- 1 S' तात्पर्यान्न विरुध्यते. 2S' मित्वा.