पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२. सू° ३.] ४४१ अष्टमं काण्डम् । ६०१ मृणसि हंसि । तथापि त्वा त्वां रक्षांसि केपि राक्षसाः पृतनासु संग्रा- मेषु न जिग्युः न जितवन्तः । अतस्त्वं ऋव्याद: मांसाशनान् राक्षसान् सहमूरान् मूलसहितान् अनु दह क्रमेण भस्मीकुरु । तेपि दैव्यायाः देवस्य तव संबन्धिन्याः ते तव हेत्याः आयुधाद् मा मुक्षत मुक्ता मा भूवन् तद्वशं प्राप्नुवन्तु ॥ नवमी ॥ त्वं नो॑ अग्ने अध॒रादु॑द॒क्तस्त्वं प॒श्चात र॑क्षा पु॒रस्ता॑त् । प्रति॒ त्ये ते॑ अ॒जरा॑स॒स्तपि॑ष्ठ अ॒घश॑तं॒ शोशु॑चतो दहन्तु ॥ १९ ॥ त्वम् । नः । अग्ने॒ । अधरात् । उक्तः । त्वम् । प॒श्चात् । उ॒त । र॒क्ष | पु॒रस्ता॑त् । प्रति॑ । त्ये । ते । अजरोसः । तष्ठिाः | अघऽशैसम् । शोशु॑चतः । दु- । हुन्नु ॥ १९ ॥ हे अग्ने त्वं नः अस्मान अधरात् अधोदिशः सकाशात तत्रस्पेभ्य: पीडकेभ्यो राक्षसेभ्यः रक्ष पाहि । तथा उदक्त: उदग्दिशः सकाशात् त- त्रत्येभ्यो [रक्ष ] । एतद्दक्षिण दिशोप्युपलक्षणम् । अथवा अधरादित्यनेन अवाची दक्षिणा दिग् विवक्ष्यते । किं च त्वं पश्चात् प्रतीच्या दिशः सकाशाद् रक्ष । उत अपि च पुरस्तात् पूर्वस्या दिशः सकाशाद् रक्ष तेषु तत्तद्देशेष्ववस्थितेषु कथं रक्षा भवतीत्याशयह प्रति ते त इति । ते तवं संबन्धित प्रसिद्धास्तत्रतत्र वर्तमानाः स्फुलिङ्गाः । ज्वालारूपा इति शेषः । अघशंसम् अघं हिंसां शंसन्तं राक्षसं [प्रति ] दहन्तु वि नाशं कुर्वन्तु । कीदृशाः | अजरासः अजरा अजीर्णा: । तपिष्ठाः अ- तिशयेन तापका: । शोशुचतः भृशं दीप्ताः ॥ दशमी || प॒श्चात् पु॒रस्ता॑दध॒रादुभत्त॒रात् क॒विः काव्ये॑न॒ परि॑ पाह्यग्ने । सखा सखा॑यमजरो अग्ने म १BKPV पिष्टा. We withjai KK SPJC- 1 $´ omit रक्ष. See note 3 S' अवनतो for अवाची. 3S' तव रक्ष for तव. अम॑र्त्यस्त्वं न॑ः ॥ २० ॥ (७)