पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं काण्डम् । अथर्ववज्योति॑िषा दैव्ये॑न सत्यं धूर्वन्तमचिंतं न्योष ॥ २१ ॥ तत् । अ॒ग्ने॒ । चक्षु॑ । प्रति॑ । धे॒हि॒ | रे॒भे । शफंऽआरुज॑ः । येन॑ । पश्य॑सि । या॒तु॒ऽधाना॑न् । अ॒थर्व॒ऽवत् । ज्योति॑षा । दैव्ये॑न । स॒त्यम् । धूर्व॑न्तम् । अ॒चित॑म् । नि । ओष ॥ २१ ॥ [अ० २. सू° ३.] ४४१ ६०३ । हे असे त्वं रेभे शब्दं कुर्वते रक्षसे तत् चक्षुः प्रति धेहि स्थापय । दहेन्युक्तं भवति वह्निहटेर्दाहकत्वात् । शफारुज: शफवत् शफाः । नखा इत्यर्थः । अथ वा पशुरूपधारिणां शफा अपि संभवन्ति । तैरारुजन्तीति शफारुजः । तादृशान यातुधानान् येन पश्यसि तञ्चक्षुरित्यर्थः । किं च अथर्ववत् अथर्वाख्यो महर्षिरिव । स एव प्रजापतिरिति ग्रन्थादौ च तस्य माहात्म्यं प्रतिपादितम् । स यथा तपोमन्त्रप्रभावाभ्यां कृत्स्त्रान् असुरान् निर्ददाह तहत् त्वमपि दैव्येन देवसंबन्धिना ज्योतिषा तेजसा सत्यम् य थार्थ धूर्वन्तम् हिंसन्तम् अचितम् अचेतारं संज्ञारंहितं न्योष नितरां. हु उष दाहे । लोणमध्यमरूपम् ॥ दह । द्वितीया ॥ परि॑ ने॒ पुरं वयं विने॑ स॒हस्य धीमहि । धृषव॑णि॑ दि॒वेदि॑वे ह॒न्तारं॑ सु॒तः ॥ २२ ॥ 1 परि॑ वा॒ अ॒ । पुर॑म् । व॒यम् । विप्र॑म् । स॒ह॒स्य । धीमहि । घृ॒षत्ऽव॑र्णम् । दि॒वेऽदि॑वे । ह॒न्तार॑म् | अ॒ङ्गुरऽव॑तः ॥ २२ ॥ व्याख्यातेयं प्राक् [७.७४] । हे अम्ने सहस्य सहसे हित । अभिभव- नशीलेत्यर्थः । अथवा सहो बलम् तेन जात । मथनाद् उत्पन्नत्वात् । [ वयं त्वा ] त्वां परि तो धीमहि ध्यायेमहि परिधिं कुर्मो वा । कीदृशम् । पुरम् कामान: पूरकम् । विप्रंम् मेधाविनं विविधं प्रीण- h १ BS मर्चितं. We with AKYRPPJVC.. २ P शफ़ा°. We with P J Cr. 18 तैरुरुजंति. 29' ॰प्रभाभ्यां :'S' अत्रेतारं. 1S' संज्ञानहितं. 5S' त्वाविप्रं for विप्रम्.