पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०४ अथर्वसंहिताभाष्ये यितारं वा । धृषद्वर्णम धर्षकवर्णयुक्तम् । दिवेदिवे प्रतिदिनं भङ्गुरावताँम् भङ्गस्वभावोपेतबलयुक्तानां राक्षसानां हन्तारम् मंविनाशयितारम् । अग्ने- दर्शनेनैव असुराणां बलानि भङ्गुराणि भवन्तीत्यभिप्रायः । यद्धा सर्वप्रा- बिलानां भङ्गुरीकरणसामर्थ्यवताम् इत्यर्थः ॥ तृतीया || विषेण॑ भराव॑तः प्रति॑ स्म र॒क्षस जहि । अग्ने॑ति॒ग्मेन॑ शोचिषा॒ तपु॑रग्राभिर॒र्चिभिः ॥ २३ ॥ वि॒षेण॑ । भ॒ङ्गुरऽव॑तः । प्रति॑ । स्मा॒ । र॒क्षस॑ । ज॒हि॒ । अग्ने॑ । ति॒ग्मेन॑ । शोचिषा॑ । तपु॑ःऽअग्राभिः । अ॒र्चिभिः ॥ २३ ॥ हे असे विषेण विषवद्विनाशकेन व्याप्तेन वा । एतत् शोचिषेत्यस्य विशेषणम् । तिग्मेन तीक्ष्णेन शोचिषा तेजसा भङ्गुरावतः । उक्तो भङ्गुरावच्छब्दार्थः । उक्तरूपान् रक्षसः राक्षसान् प्रति जहि । स्मेति पूरणः । तथा तपुरग्राभि: तापकानोपेताभिः अर्चिभिः ज्वालाभिरपि जहि ॥ चतुर्थी | वि ज्योति॑षा बृह॒ता भत्यग्निराविर्विश्वा॑नि कृणुते महित्वा । प्रादे॑वीर्मा॒याः स॑हते दु॒रेवा॒ाः शिशी॑ते॒ शृ॒ते॒ रक्ष॑भ्यो वि॒नि॑िक्ष्वे॑ ॥ २४ ॥ वि । ज्योति॑षा । बृह॒ता । भात । अ॒ग्निः । आ॒विः । विश्वा॑नि । कृ॒णुते॒ । महिऽत्वा । । प्र । अदे॑वीः । मा॒याः । स॒ह॒ते॒ । दु॒ऽवा॑ । शिशी॑ते । शृ॒ते॒ इति॑ । रक्ष॑ऽभ्यः । विऽनिवे॑ ॥ २४ ॥ अयम् अग्निः बृहता महता ज्योतिषा तेनसा वि भाति प्रकाशते ॥ अथ प्रत्यक्षकृतः । हे अग्ने महित्वा महत्त्वेन तेजसाम आधिक्येन विश्वानि १ So we with all our authorities except B that rels वि॒िनये. 15' 'पेनंचलयुक्तास्या for 'पेतबलयुक्तानां. 2S' तंप्रवि, for प्रवि.