पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० २. सू° ३.] ४४१ अष्टमं काण्डम् । ६०५ सर्वाण्यपि भूतजातानि आविष्कृणुषे स्पष्टानि करोषि । विश्वानि प्रति आत्मानं वा आविष्कुरुषे प्रभूतेन तेजसा । अयम् अग्नि: अदेवी: आ- सुरी: दुरेवाः दुःखेन गन्तव्या मायाः म सहते प्रकर्षेण अभिभवति । तथा रक्षोभ्यो विनवे विनाशाय | निक्ष चुम्बने । तुमर्थे केन् प्रत्ययः । वकारोपजनश्छान्दसः । शृङ्गे विषाणे शिशीते तीक्ष्णे करोति ॥ पञ्चमी ॥ ये ते शृङ्गे अजरें जातवेदस्ति॒ग्मती ब्रह्म॑संशिते । ताभ्यो॑ दु॒र्हादे॑भि॒दास॑न्तं किमीदिनं॑ म॒त्यञ्च॑म॒र्चिषा॑ जातवेद॒द्रो॒ वि नि- क्ष्व ॥ २५ ॥ ये इति॑ । ते॒ । शृ॒ते॒ इति॑ । अ॒जरे॒ इति॑ जा॒त॒ऽवे॒दुः । ति॒ग्मती॒ इति॑ति॒- ग्मती । ब्रह्म॑संशिते इति ब्रह्म॑ऽसंशिते । ताभ्या॑म् । दुःऽहादे॑म् । अ॒भि॒ऽदास॑न्तम् । क॒िर्म॒ीदिन॑म् । प्र॒त्यञ्च॑म् । अ॒र्चि- ष । जा॒त॒ऽवे॒दुः । वि । नि॒क्ष्व॒ ॥ २५ ॥ हे जातवेदः अग्ने ये प्रसिद्धे ते तव शृङ्गे विषाणे स्तः ताभ्याम् अ- चिंषा प्रत्यञ्चं वि निव विनाशयेत्युत्तरत्र संबन्ध: । किंगुणके शृङ्गे इ ति तत्राह | अजरे जरारहिते अविनश्वरे तिग्मती तीक्ष्णायुधभूते ती- क्षणहननसाधने ब्रह्मसंशिते ब्रह्मणा मन्त्रेण अस्माभिः प्रयुक्तेन तीक्ष्णभू- ते । उक्तलक्षणाभ्यां शृङ्गाभ्यां हन्तव्यः क इति तं सविशेषम् आह । दुर्दम दुष्टहृदयम् अभिदासन्तम् सर्वत उपक्षपयन्तं किमीदिनम् किम इदानीम् इति वदन्तं किम् इदं किम इदम इत्यन्विष्य चरन्तं वा रा- क्षसादिकम् ॥ अ॒ग्नी रक्षांसि से शुचिः पावक ई 1S विनिक्षे. षष्ठी ॥ शुक्रचि॒रम॑र्त्यः । ॥ २६ ॥ (८)