पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०४ अथर्वसंहिताभाष्ये व्यवधानं यथा भवति तथा धत्तम् धारयतम् । सर्वदा तस्मिन्नहितं कु- रुतम् ॥ तृतीया ॥ इन्द्रा॑सोमा दु॒ष्कृ॑तो॑ व॒त्रे॒ अ॒न्तर॑नारम्भ॒णे तम॑सि॒ प्र वि॑ध्यतम् । यतो॒ नैषां॒ पुन॒रेक॑श्च॒नोदय॒त् तद् वा॑मस्तु॒ सह॑से मन्युमच्छव॑ः ॥ ३ ॥ इन्द्रा॑सोमा । दु॒ऽकृत॑ः । ववे । अन्तः । अनारम्भणे । तम॑सि । म | वि ध्यतम् । । यत॑ः । न । ए॒षाम् । पुन॑ः । एक॑ः । च॒न । उ॒ऽअय॑त् । तत् । वा॒म् । अ॒स्तु । सह॑से । म॒न्युऽमत् । शव॑ः ॥ ३ ॥ हे इन्द्रासोमौ दुष्कृतः दुष्टकारिणो राक्षसान् वव्रे आवरके अनार- म्भणे अनालम्बने तमसि अन्तः प्र विध्यतम् प्रवेश्य ताडयतम् । यतः यस्माद् अन्धकाराद् एषां पतितानां राक्षसानां दुष्कृतां मध्ये पुनः ए कश्चनं एकोपि न उद्यत् नोगच्छेत् । एतेलेंटि अडागमः । “इ- तश्च लोप: ० " इति इकारलोपः । गुणायादेशौ । तथा वाम यु- " वयोः [ तत् ] शव: बलं सहसे तेषाम् अभिभवाय मन्युमत् अस्तु क्रो- धोपेतं भवतु ॥ चतुर्थी ॥ इन्द्रा॑सोमा वर्तय॑तं दि॒वो वधं सं पृथिव्या अ॒घशँसाय तर्हणम् । उत्त॑तं स्व॒यं १ पर्व॑तेभ्यो॑ येन॒ रक्षों वावृधानं नि॒िजूर्वेषः ॥ ४ ॥ इन्द्रा॑सोमा । व॒र्तय॑तम् । दि॒वः । व॒धम् । सम् । पृथि॒व्याः । अ॒घशंसाय | तहणम् । उत् । त॒क्षत॒म् । स्व॒र्य॑म् । पर्व॑तेभ्यः । येन॑ | रक्ष॑ । ववृधानम् । नि॒िऽजू- व॑थः ॥ ४ ॥ १ ADS दुःकृतौ २BD$₹ for १. B has no karpa. ३ Pomits the avagralit, 1S एक for एकश्चन.