पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ २, सू०४.] ४४२ अष्टमं काण्डम् | ६११ यो दुष्कृत् दुहुः द्रोहशील : सन् कदा चित् एकवारमपि मा माम अभिदासति उपक्षपंयति बाधते । तस्मा इति ॥ अष्टमी ॥ यो मा पार्केन मन॑सा चर॑न्तमभिचष्टे अनृ॑तेभिर्वचोभिः । आप॑ इव काशिना संगृ॑भीता अस॑न्न॒स्वास॑त इन्द्र वृक्ता ॥ ६ ॥ यः । मा॒। पार्केन । मन॑सा । चर॑न्तम् । अ॒भि॒ऽचष्टै । अनृ॑तेभिः । वच॑ऽभिः । आप॑ऽइव । क॒शिना॑ । समगृ॑भीताः । अस॑नं॒॑ । अ॒स्तु । अस॑तः । इ॒न्द्र । । वक्ता ॥ ८ ॥ हे इन्द्र यो राक्षसादि: पाकेन परिपकेन मनसा । अन्यायाचरण- स्यापि मनोमूलवात् मन एव अत्राभिधीयते । चरन्तम् प्रवर्तमानं मा माम अनृतेभि: अनृतरूपैः अयं ब्राह्मणं हतवान् अयं ब्रह्मस्वं हृतवान् इत्येवमाद्यात्मकैः वचोभिः वचनैः अभिचष्टे अभिशापं करोति स राक्षसा- दिः काशिना मुष्टिना संगृभीताः संगृहीता आप इव ता यथा अङ्गु- लिविवरेभ्यो गलन्ति तद्वत् असत: अविद्यमानस्य अकृतस्यार्थस्य वक्ता स्वयमपि असन्नस्तु शून्यो भवतु ॥ नवमी ॥ ये पा॑कशंसं वि॒र॑न्त॒ एव॒र्ये वा॑ भ॒द्रं दू॒षय॑न्ति स्व॒धाभि॑ः । अह॑ये वा तान् प्र॒ददा॑तु॒ सोम॒ आ वा॑ दधातु नितेरु॒पस्ये॑ ॥ ९ ॥ ये। पा॒क॒ऽश॑सम् । वि॒ऽहर॑न्ते । एवैः । ये । वा॒ा । भ॒द्रम् । दू॒षय॑न्ति । स्व॒धाभि॑ः । अह॑ये । वा॑ । तान् । प्र॒ऽददा॑नु॒ । सोम॑ः । आ । वा॒ा। द॒धा॒तु । निःऽॠते . उ॒पऽस्ये॑ ॥ ९ ॥ ये राक्षसाः पाकशंस परिपक्कशंसनं सत्यभाषिणं माम् एवैः प्राप्त- व्यैरात्मीयैः कामैहेतुभिः विहरन्ते विशेषेण हरन्ति उपक्षपयन्ति । यथा- १ . P अस॑म्. We with PJC २ P वातान् for वा | तान् | We with PJCr. ३P omits the visarga in ॠते: We with PJCr.