पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१२ अथर्वसंहिताभाष्ये कामं परिवदन्तीत्यर्थः । ये च भद्रम कल्याणवर्तनं मां मदीयं भद्रम् भद्रं कर्म वा स्वधाभिः । स्वधेत्यन्ननाम । अन्नैर्निमितर्भूतैः दूषयन्ति तान् उभयविधान् अहये । सर्पे वृत्रासुरैष्यहिरित्यभिधानम् । वृत्राय सर्पाय वा प्रददातु प्रयच्छतु सोमः । वा अथवा निरृतेः । निरृतिः पापदे- वता | हिंसित्र्या: पोपदेवताया उपस्ये उत्सङ्गे आ दधातु आस्थापयतु ॥ दशमी | यो नो र दिप्स॑ति पि॒त्वो अ॑ग्ने॒ अश्वा॑नां॒ गवा॒ यस्त॒नूना॑म् । रिपु स्तेन स्ते॑य॒कृद् द॒भ्रमैतु नि षं हीयतां तन्वाई तना॑ च ॥१०॥ ( ५ ) यः षु नः॒ । रस॑म् । दिप्स॑ति । पि॒वः । अ॒ग्ने॒ । अश्वा॑नाम् । गवा॑म् | यः । त॒नूना॑म् । ·रि॒पुः । स्ते॒नः । स्य॒ऽकृत् । भ्रम् । एतु । नि । सः । हीयताम् । त॒न्वा । तना॑ । च ॥ १० ॥ (s) हे अग्ने यो राक्षसादिः नः अस्माकं रसम् मम शरीरसारं दिप्सति जिघांसति यँच अश्वानां मदीयानां रसं दिप्सति यश्चापि गवां यो वा तनूनाम् आत्मीयपुत्रादिशरीराणां रसं दिप्सति स पूर्वोक्कमकारो रिपुः शत्रु: स्तेन तस्कर: स्तेयकृत् मोषकर्ता दभ्रम् एतु । दभि हिंसा- हिंसां प्रामोतु । स एव तन्वा स्वकीयेन शरीरेण तना च तनयेन च निं हीयताम् वियुक्तो भवंतु ॥ याम् । इत्यष्टमकाण्डे द्वितीयेनुवाके चतुर्थं सूक्तम् ॥ “पर: सो अस्तु” इति सूक्तस्य "रक्षोहणम्" इत्यनुवाकमयुक्तो वि- नियोगो द्रष्टव्यः ॥ 66 तत्र प्रथमा ॥ प॒रः सो अ॑स्तु॒ त॒न्वा॒ा तना॑ च ति॒स्रः पृ॑थि॒वीर॒धो अ॑स्तु॒ विश्वा॑ः । १Aस. २ KR १ fob ३. We with ADv. ३R १ for ३. 1S´ omit पाप°. 2 Sayapa's text reads the second pada thus: ये अश्वानां ये गवां यस्तनूनाम्. 3S' निषहीयतांन्नियुक्तोभवतु.