पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰२. सू°४.] ४४२ अष्टमं काण्डम् । ६१३ प्रति शुष्य तु यशो॑ अस्य देवा यो मा दिवा॒ा दिप्स॑ति॒ यश्च॒ नक्त॑म् ॥११॥ प॒रः । स । अ॒स्तु । त॒न्व∫ । तना॑ । च॒ । ति॒स्रः । पृथि॒वीः । अधः । अस्तु । विश्वः । प्रति॑ । शृ॒ष्य॒तु । यश॑ः । अ॒स्य॑ । दे॒वः । यः । मा॒ । दिवा॑ । दिप्स॑ति । यः । च । नक्त॑म् ॥ ११ ॥ । 66 हे देवाः स राक्षसादि: तन्वा स्वकीयेन शरीरेण तना च पुत्रेण

  • उभयत्र व्यत्ययेन तृतीया तनो: पुत्रस्य चेत्यर्थः

उभयोः परः अन्यः विरोधी अथवा परस्ताद् वर्तमानो वियुक्तः अस्तु । तथा विश्वाः व्याप्तास्तिस्रः पृथिवीः त्रिप्रकारा भूमी: । भूमेधुलोकस्य च त्रैविध्यं मन्त्रान्तरेषु प्रसिद्धम् । “तिस्रो भूमीर्धारयन् त्रीरुत धून " [ ऋ०२.२७.६ ] 1 'तिस्रो द्यावो निहिता अन्तरस्मिन् तिस्रो भूमी- रुपरा: षड्डिधाना: ” इति [ऋ०७.८७.५] । अधो अस्तु । तिसृणा- मपि पृथिवीनाम् अधस्तात नरके वर्तमानोस्त्वित्यर्थः । अस्य पापिनो यशः अन्नं कीर्तिर्वा प्रति शुष्यतु विनश्यतु । यस्य ईदृशो विनाशः तं दर्शयति । यो द्वेष्टा दिवा अहनि मा मां दिप्सति हन्तुम् इच्छति यश्च नक्तम रात्रौ दिप्सति । तस्येति संबन्धः ॥ " द्वितीया || सुवि॒ज्ञानं चि॑िकितुषे॒ जना॑य॒ सञ्चास॑ञ्च॒ वच॑सी पस्पृधाते । तयो॒ोर्यत् स॒त्यं य॑त॒रसृजी॑य॒स्तदत सोमो॑वति॒ हन्त्यास॑त् ॥ १२ ॥ सु॒ऽवि॒ज्ञानम् । च॒क॒तुषे॑ । जना॑य । सत् । च॒ । अस॑त् । च॒ । वच॑सो॒ इति॑ । प॒स्पृधा॒ते॒ इति॑ । तयो॑ । यत् । सत्यम् 1 अतरत् । ऋजयः । तत् । इत् । सोम॑ः । अवति । हन्ति । असत् ॥ १२ ॥ १ P अस्य. We with PJC. २ Pदुवा:. We with Pj Cr. 1 S' अन्यविरोधी. 25 विनाश इतितंदर्शयति.