पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये 66 अस्याः 'इन्द्रासोमा" इत्यादिसूक्तत्रयस्य ऋक्संहितायामपि समान- त्वात् तदीयवृहद्देवतानुक्रमण्याम् उदाहृतं वचनम् एतत् ॥ हत्वा पुत्रशतं पूर्व वसिष्ठस्य महात्मनः । वसिष्ठं राक्षसोसि त्वं वासिष्ठं रूपम् आस्थितः ॥ अहं वसिष्ठ इत्येवं जिघांसू राक्षसोब्रवीत् । अत्रोतरा ऋचो दृष्टा वसिष्ठेनेति नः श्रुतम् ॥ ६१४ { इति ॥ चिकितुषे विदुषे जनाय इदं सुविज्ञानम् विज्ञातुं सुशकं भवति । किं तत् । सञ्च सत्यं च असच्च अनृतं च वचसी सत्यासत्यरूपे वचने पस्पृधाते मिथ: स्पर्धेते । तयोः सदसतोर्मध्ये यत् सत्यम् यथार्थवचनं यतरच्च ऋजीय: ऋर्जुतरम् अकुटिलं तदित् तदेव सोमो देवः अवति रक्षति । असत् उक्तविलक्षणम् असत्यं हन्ति हिनस्ति । एवं सति आ- वयोर्मध्ये कोऽनृतवादीति विद्भिः सुज्ञानम् इत्यर्थः । अतः असत्यभूतम् आरोपयन्तं राक्षसम हे सोम त्वं घातयेत्यभिप्रायः ॥ तृतीया ॥ अस्मासु न वा उ॒ सोमो॑ वृजि॒नं ह॑िनोति॒ न स॒त्रियं॑ मिथुया धा॒रय॑न्तम् । हन्ति॒ रक्षो॒ हन्त्यास॒द् वद॑न्तमु॒भाविन्द्र॑स्य॑ प्रतिौ शयाते ॥ १३ ॥ न । वै । ऊ॒ इति॑ । सोम॑ः । वृज॒नम् । हि॒नोति॒ । न । क्ष॒त्रिय॑म् । मि॒थु॒या । धारयन्तम् । हन्ति । रक्षः । हन्ति । अस॑त् । वद॑न्तम् । उभौ । इन्द्र॑स्य । ऽसि॑तौ । श- य॒ते॒ इति॑ ॥ १३ ॥ सोमो देवः वृजिनम् । पापनाचिना वृजिनशब्देन तडान् लक्ष्यते । पापवन्तं राक्षसं न हिनोति वा उ । वैशब्दः प्रसिद्धौ | उशब्दः अव- धारणे । नैव मुञ्चति अयं जीवविति न परित्यजति । मिथुया मिथ्या- भूतम् अनृतं धारयन्तं क्षत्रियम् क्षत्रं बलम् तद्वन्तं बलिनं राक्षसादिकं १ D विन्द्रश्च 1S' पूर्व. S' रात्रीत्तरा. 3S' ऋजुरं for ऋजुतरं