पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० २. सू० ४.] ४४२ अष्टमं काण्डम् | ६१५ च सोमो न हिनोति । तर्हि सोमः किं करोति । उच्यते । रक्षः रा- क्षसं वृजिनरूपं हन्तिं हिनस्ति । तथा असत् अनृतं वदन्तं हन्ति । उभौ उक्तविधौ दुष्टौ इन्द्रस्य प्रसितौ बन्धनसाधने पाशे शयाते । अथवा प्रसि- तौ । निष्ठान्तं पदम् । प्रकर्षेण बद्धौ सन्तौ शयाते । Z षिञ् बन्धने इत्यस्मात् कर्मणि निष्ठा । गतिरनन्तरः" इति गतेः प्रकृतिस्व- रत्वम् । क्लिपक्षे "तादौ च निति कृति" इति गते प्रकृतिस्वरत्वम् ॥ चतुर्थी ॥ 66 यदि॑ वा॒मनु॑तदे॑वो॒ो अस्मि॒ मोघं वा दे॒वाँ अ॑प्यु॒हे अ॑ग्ने । किमस्मभ्यं जातवेदो हृणीषे द्रोघवाच॑स्ते निरृथं सेचन्ताम् ॥ १४ ॥ यदि॑ । वा॒ । अ॒हम् । अनृ॑तऽदेवः । अस्मि । मोष॑म् । वा । दे॒वान् । अ- पिऊहे । अग्ने । किम् । अस्मभ्य॑म् । जा॒तवेदः । हृणीषे | द्रोघऽवाच॑ः । ते॒ । निऽॠथम् । सचन्ताम् ॥ १४ ॥ हे [ अग्ने] अहं यदि वा यद्यपि अनृतदेवः अनृतेन दीव्यतीत्यनृत- देवः अथ वा अनृताः असत्यभूता देवा अस्य | देवशून्य इत्यर्थः । तादृशोसि वा । अथ वा मोघम व्यर्थ देवान स्तोतव्यान् यष्टव्यांच अ- प्यूहे वहामि । उभयविधोपि न भवामीत्यर्थः । अतः कारणात् किम क- थंकारम् अस्मभ्यम् हे जातवेदः जातानां वेदितरने हृणीषे क्रुध्यसि । क्रो- धो न कार्यः । अस्मविलक्षणा द्रोघवाचः देवताद्रोहविषयवचनोपेता; ते* राक्षसाः निरृथम निकृष्टाम् आर्ति नाशं सचन्ताम् समवयन्तु गच्छन्तु ॥ पञ्चमी ॥ अद्या मु॑रीय॒ यदि॑ यातु॒धाना॑नो॒ अस्मि॒ यदि॑ वायु॑स्तु॒तय॒ पूरु॑षस्य । अधा॒ स वीरै यो मा॒ा मोघं यातु॑धा॒नेत्याह॑ ॥ १५ ॥ ३. P अस्मि २ AR चॅप्टे. B बैट. K म॑रीय॒. K V मृ॒रीय॒. We with ABDEŠPPJ A पुरु॑षम्य ४ १ BS देवो. We with ADKKRVC. We with ý J. 1S निराक्षसाः