पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये अ॒द्य । सु॒री॑य॒ । यदि॑ । य॒तु॒ऽधान॑ः । अस्मि॑ । यदि॑ । वा॒ । आयु॑ः । त॒तप॑ । पुरु॑षस्य । । अध॑ । सः । वी॒रैः । द॒शऽभिः । वि । यूयाः । यः । मा॒ । मोध॑म् । यातु॑ऽधा- न । इति । आहे ॥ १५ ॥ प्रायेण अयं मन्त्रः पूर्वश्व अराक्षसम् अहिंसकं त्वं हिंसको राक्षसो- सीत्येवं यो मिथ्याभियोगं करोति तं प्रति मिथ्याभिशस्तस्य शपथरूपौ मन्त्रौ । हे आरोपक पुरुष अहं यदि यातुधान: यातनानां विधायकः पीडाकृद् अस्मि । यदि वा पुरुषस्य आयुः जीवनं ततप संतापं हिंसाम अकार्षम् । तर्हि अद्य अस्मिन्नेव दिने मुरीय म्रियेय । अध अथ मा अनागसं मां यस्त्वं मोघम् व्यर्थे यातुधानेति आह । पुरुषव्यत्ययः । स त्वं च दशभिः दशसंख्याकैर्वीरैः पुत्रैः वि यूयाः वियुक्तो भवेः ॥ षष्ठी ॥ यो माया॑तुं यातु॑धा॒नेत्याह॒ यो वा॑ र॒क्षाः शुचि॑र॒स्मत्याह । इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेन॒ विश्व॑स्य ज॒न्तोर॑ध॒मस्प॑दीष्ट ॥ १६ ॥ यः । मा॒ । अया॑तुम् । यातु॑ऽधान । इति । आह॑ । यः । वा॒ । र॒क्षा । शुचि॑ः । अस्मि । इति । आह इन्द्र॑ः । तम् । ह॒न्तु॒ । मह॒ता । व॒धेन॑ । विश्व॑स्य । जन्तोः । अधमः । प- दृष्ट् ॥ १६ ॥ यः अध्यारोपयिता मा माम् अयातुम् अराक्षसं सन्तम् हे यातुधान राक्षस इत्याह यो वा यश्च परमार्थतो रक्षाः राक्षसः शुचिः शुद्धोहम् अयातुः इत्याह ब्रूते तम् उभयविधम् असत्यवादिनम् इन्द्रो देवः म- हता अतिशयितप्रभाववता वधेन हननसाधनेन वज्रेण हन्तु हिनस्तु । स उभयविधो जनः विश्वस्य सर्वस्यापि जन्तोः प्राणिनः अधम निकृष्ट: सन् पदीष्ट पततु नश्यतु ॥ १P अर्धा. We with P 1 $' नियायकः. 2S' पुरुषवचनव्यत्ययः.