पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१७ अपर्वसंहिताभाष्ये हे मरुतः यूयं विक्षु प्रजासु मध्ये वि तिष्ठध्वम् विविधं तिष्ठत | रक्ष- स: राक्षसान् इच्छत हन्तुम् इच्छां कुरुत । तदनन्तरं गृभायत गृह्णीत । गृहीत्वा च सं पिनष्टन सम्यक् चूर्ण यथा भवति तथा पेषणं कुरुत । ये वा राक्षसाः वयः पक्षिणो भूत्वा नक्तभिः रात्रिभिः रात्रिषु पतयन्ति गच्छन्ति संचरन्ति । ये वा ये च देवे दैवे देवसंबन्धिनि दीप्ते प्रकाश- माने वा अध्वरे यागे रिपः हिंसा: दधिरे धारयन्ति । तान् राक्षसान् संपिनष्टनेति संबन्धः ॥ नवमी | प्र व॑र्तय दि॒वोश्मा॑नमिन्द्र॒ सोम॑शितं मघव॒न्सं शिशाधि । प्राक्तो अ॑प॒क्तो अ॑ध॒रादु॑द॒क्तोऽभि अ॑ र॒स॒ पर्व॑तेन ॥ १९ ॥ म । वर्तय॒ । दि॒वः । अश्मा॑नम् । इ॒न्द्र॒ । सोम॑ऽशितम् । म॒घऽव॒न् । सम् । शिशाधि । प्राक्तः । अ॒पाक्तः । अ॒धरात् । उक्तः । अ॒भि । ज॒हि॒ । र॒क्षस॑ः । पर्व॑तेन ॥ १९॥ हे मघवन् इन्द्र दिवः धुलोकाद् अन्तरिक्षाद् अश्मानम् अशनिल- क्षणं वज्रं प्र वर्तय परिस्फारय । तदेव सोमशितम् सोमेन तीक्ष्णीकृतं यथा भवति तथा सं शिशाधि सम्यक् तीक्ष्णीकुरु | तादृशेन पर्वतेन पर्ववता वज्रेण प्राक्त: अपाक्त: अधरात् उदक्तः प्राक्पश्चाद्दक्षिणोत्तराभ्यो दिग्भ्य: । सर्वस्माद् देशाद् इत्यर्थः । रक्षस: राक्षसान् अभि जहि मारय ॥ दशमी ॥ ए॒त उ॒ त्ये प॑तयन्ति॒ श्वया॑व॒ इन्द्र॑ दिप्तन्ति दि॒प्सवोदा॑भ्यम् । शिशी॑ते शक्रः पिशू॒नेभ्यो व॒धं नूनं सृ॑जद॒शनि॑ यातु॒मद्भ्यः॑ ॥ २० ॥ (१०) ए॒ते । ऊ॒ इति॑ । त्ये । घृ॒तय॒न्ति॒ । श्वऽया॑तवः । इन्द्र॑म् । दु॑प्स॒न्ति॒ । दि॒प्सवः॑ः । अदा॑भ्यम् । १ A KR (and Sáyana's text:) दि॒वो अश्मा॑० २ KKRV१ for ३. We with A B DSC+ ३P प॒तय॑न्ति We with PJCP. ४ दिप्स॑न्ति We with PJ Cr.