पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० २. सू° ४.] ४४२ अष्टमं काण्डम् | ६२१ पृथि॒वी । नः । पार्थि॑वात् । पि॒तु । अंह॑सः । अ॒न्तरि॑क्षम् । दि॒व्यात् । पा॒ा- i तु | अस्मान् ॥ २३ ॥ ii 66 नः अस्मान् यातुमावत् यानुमत् हिंसकं रक्षः राक्षसजाति: मा अभि नट् मा प्राप्नोतु ।

  • नशतिर्व्याप्तिकर्मा । तस्माल्लुङ “मन्त्रे घ

स० " इति हेर्लुक् । न माड्योगे” इति अडभाव: ४ । तथा किमीदिनः किम् इदानीम् इति वा किम इदं किम् इदम् इति वा च रन्तो राक्षसा ये मिथुन: मिथुनभूताः स्त्रीपुंसाः सन्ति ते अपोच्छन्तु अपगच्छन्तु । किं च पृथिवी देवी नः अस्मान् पार्थिवात् पृथिवीसं- बन्धात् स्वसंबन्धिनः अंहसः रक्षः पिशाचादिकृतात् पीडनात् पापाद्वा [पातु] रक्षतु । एवम् अन्तरिक्षम् अन्तरिक्षदेवता अस्मान दिव्यात दिवि भवात् स्वसंबन्धाद् अंहसः मातु ॥ चतुर्थी ॥ इन्द्र॑ ज॒हि पुस॑ यातु॒धान॑मु॒त स्त्रियै मायया शाश॑दानाम् । विनी॑वासो॒ मूर॑देवा ऋदन्तु॒ मा ते ह॑श॒न्त्सूर्य॑मुच्चर॑न्तम् ॥ २४ ॥ इन्द्र॑ । ज॒हि । पुमो॑सम् । य॒तु॒ऽधान॑म् । उ॒त । स्त्रिय॑म् । मा॒यया॑ । शाश॑दानाम् । वि॒िऽनी॑वा॒सः॑ । मूर॑ऽदे॒वाः । ऋ॒द॒न्तु | मा । ते । शन् । सूर्य॑म् । उ॒ऽच- 1 1 र॑न्तम् ॥ २४ ॥ हे इन्द्र त्वं पुमांसम पुंरूपधारिणं यातुधानम् यातनाकारिणं राक्षसं जहि नाशय । उत अपि च मायया परव्यामोहिन्या क्रियया शाशदा- नाम हिंसती स्त्रियम् राक्षसीं जहि । किं च मूरदेवा: मारणक्रीडा : मू- लेन विषौषध्या दीव्यन्तीति [ वा ] मूरदेवाः ते विग्रीवासः विच्छिन्नग्री- वाः सन्तः ऋदन्तु नश्यन्तु । ते मूरदेवाः उच्चरन्तं सूर्य मा दृशन् मा द्राक्षुः ॥ १ PCr. d. We with PJ. २ P दृशन्. We with PJ Ci 1 $' रक्षः यानयता राक्षस° रक्षः राक्षस. 25' तस्य लुड़ि for तस्मालुङि. 3S वि- गतिछिन्न.