पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं काण्डम् | ६२३ [अ० ३. सू° ५.] ४४३ महाशान्तौ तिलकमणिबन्धने एतत् सूक्तं विनियुक्तम् । तद् उक्तं नक्ष- कल्पे । “ अयं प्रतिसर इति मन्त्रोक्तं रौद्याम” इति [ न० क° १९ ] ॥ पिष्टरात्रीविधाने प्रतिसरबन्धनेपि एतत् सूकम् । “अथातः पिष्टरा- कल्पं व्याख्यास्यामः” इति उपक्रम्य उक्तम् अथर्वपरिशिष्टे । “अयं प्रतिसर इति प्रतिसरम आबध्य” इति [प०६.१] ॥ 66 त्र्याः तत्र प्रथमा ॥ अयं प्रतिसरो मणिर्वीरो वीराय बध्यते । वीर्यवान्सपल॒हा शूर॑वीरः परि॒पाण॑ सुम॒ङ्गल॑ ॥ १ ॥ अ॒यम् । प्र॒ति॒ऽस॒रः । म॒णिः । वी॒रः । वी॒राय॑ । ब॒ध्यते । वी॒र्य॑ऽवान् । स॒प॒ऽहा । शूर॑ऽवीरः । परि॒ऽपान॑ः । सु॒ऽम॒ङ्गल॑ः ॥ १ ॥ अयं तिलकवृक्षनिर्मितो मणिः प्रतिसर: प्रतिसरणसाधनः । य: कृ- त्याः करोति तं प्रति सरतीति प्रतिसरस्तादृशः । वीरः विविधम् ईर- यति अपसारयति शत्रुप्रभृतीनि [इति ] वीर: वीराय वीर्याय वीर्याख्याय. सामर्थ्याय विक्रान्ताय पुरुषाय वा बध्यते । मणिर्विशेष्यते । वीर्यवान् वीरस्य कर्म वीर्यम् तवान् अतिशयितवीर्यः । सपलहा शत्रुघातकः । शूरवीरः शूरान् वीरयति संग्रामे इति वा शूरश्वासौ वीरश्चेति वा शू- रवीरः | परिपाणः परिपात्यनेन साधनेन प्रयोक्ता यजमानम् इति परि- पाण: परिरक्षासाधनभूतः परितो रक्षिता वा । परिपूर्वात पातेः करणे ल्युट् । 'वां भावकरणयोः" इति णत्वविकल्पः । नन्द्यादित्वात् युर्वा । सुमङ्गल: शोभनेन मङ्गलेन उपेतः ॥ 66 द्वितीया ॥ अयं म॒णिः स॑पहा सुवीरः सह॑स्वान् वाजी सह॑मान उग्रः । प्र॒त्यक् कृत्या दू॒षय॑न्नेति वी॒ीरः ॥ २ ॥ अ॒यम् । म॒णिः । स॒पल॒ऽहा। सु॒ऽवीर॑ः । सह॑स्वान् । वा॒जी। सह॑मानः । उ॒ग्रः । प्र॒त्यक् । कृ॒त्याः । दू॒षय॑न् । ए॒ति॒ । वी॒रः ॥ २ ॥ 1 $' वीराख्याय सामर्थ्यात्माय. 22 S प्रयोक्को. 3 S' घत्रि च ) वा.