पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२४ अथर्वसंहिताभाष्ये अयं खात्यो मणिः सपलहा वैरिघातकः सुवीर: शोभनैर्वीरैरुपेतः । पुत्रादिप्रदातेत्यर्थः । सहस्वान् बलवान् वाजी वेजनवानं सहमानः श- त्रूणाम् अभिभविता उग्रः उहूर्णबल: कृत्याः परोत्यादिताः प्रत्यक् कर्त्र- भिमुखं दूषयन् विनाशयन् एति गच्छति बाहुदण्डम् आरोहति । अथ वा प्रत्यक् अस्मदभिमुखम् एति वीरः विविधम् ईरयिता शत्रूणाम || तृतीया ॥ · अनेनेन्द्रो म॒णिना॑ वृ॒त्रम॑ह॒न्ननेनासु॑रान् परा॑भावयन्मनीषी । अनेना॑जय॒द् द्यावा॑पृथि॒वी उभे इ॒मे अनेना॑जयत् म॒दिश॒श्वत॑स्रः ॥ ३ ॥ अ॒नेन॑ । इन्द्र॑ः । म॒णिना॑ । वृ॒त्रम् । अ॒हुन् । अ॒नेन॑ । असु॑रान् । परा॑ । अभावयत् । मनीषी अ॒नेन॑ । अ॒जय॒त् । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । इ॒मे इति॑ । अ॒नेन॑ । अजयत् । प्रदर्शः । चर्तस्रः ॥ ३ ॥ अनेन स्रात्येन मणिना पूर्वम् इन्द्रः वृत्रम् असुरम् अहन् केनापि उपायेन जेतुम् अशक्यमपि असुं मणि बड्डा तत्सामर्थेन हतवान् । तथा अनेनैव मणिना मणिबन्धनसामर्थेन मनीषी जयोपायज्ञानवान् इन्द्रः असुरान् अन्यान् पराभावयत् पराभूतान् विनष्टान् अकरोत् । किं च अनेनैव मणिना इमे प्रसिद्धे उभे द्यावापृथिवी द्यावापृथिव्यौ अज- यत् । द्यावापृथिव्योर्विजयो नाम तदाधिपत्यम् । किं च अनेनैव मणिना चतस्रः प्रदिशः प्रकृष्टा दिश: प्रागाद्याः अजयत् स्वाधीनं कृतवान् ॥ चतुर्थी ॥ अयं स्राक्त्यो म॒णिः प्र॑तीवर्तः प्रतिसरः । ओज॑स्वान् वि॒मृ॒धो व॒शी सो अ॒स्मान् पा॑तु॒ स॒र्वत॑ः ॥ ४ ॥ अ॒यम् । स्रुक्त्यः । म॒णिः । प्र॒ति॒ऽव॒र्तः । प्रति॑स॒रः । ओज॑स्वान् । वि॒ऽमृ॒धः । व॒शी । सः । अ॒स्मान् । पा॒तु॒ । स॒र्वत॑ः ॥ ४ ॥ 2 S' inserts 15' 'वजनवानवान् which probaily stands for वेजनवान् अन्नवान् वा. ते before द्यावा.