पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ३. सू° ५.] ४४३ अष्टमं काण्डम् । ६२५ अयं स्रात्यः तिलकविकारो मणिः प्रतीवर्तः प्रतिकूलं प्रतिमुखं वर्तय- त्यनेनेति प्रतीवर्तः । 3 प्रतिपूर्वाद् वृते: करणे घञ् । उपसर्गस्य घञ्यमनुष्ये बहुलम्" इति दीर्घः । “थाथघञ् इत्यादिना उत्तरपदान्तो- दातवम् । प्रतिसरः रोगादेः प्रतिसरणसाधनभूतः ओजस्वान् श त्रुनिरासक्षमतेजोयुक्तः विमृधः विगतसंग्राम: मणिधारकदर्शनेनैव शत्रूणां पलायनात संग्रामस्यैव अभावात् । विमृधो विमर्दयिता वा । वशी स- र्वस्य वशयिता स ताहशो मणिः अस्मान् सर्वतः सर्वस्मात् अभिभवत् पातु रक्षतु ॥ 66 पञ्चमी ॥ तद॒ग्मिरा॑ह॒ तदु॒ सोम॑ आह॒ बृह॒स्पति॑ः सवि॒ता नदिन्द्रः । ते मे॑ दे॒वाः पु॒रोहि॑ताः म॒तीची॑ कृ॒त्याः प्र॑तिस॒रैर॑जन्तु ॥ ५ ॥ तत् । अ॒ग्निः । आहु । तत् । ॐ इति । सोम॑ः । आ॒ह॒ । बृह॒स्पति॑ः । स॒- विता । तत् । इन्द्र॑ः । स- ते । मे॒ । दे॒वाः । पु॒रःऽहि॑ताः । प्र॒तीची॑ः । कृ॒त्याः । म॒ति॒ऽस॒रैः । अ॒जन्तु ॥ ५ ॥ तत् वक्ष्यमाणं प्रतीची: कृत्या इत्यादिकम् अग्निर्देवो मे आह उक्त- वान् । प्राणिनः प्रतिसरैः प्रतिसरणसाधनैर्मणिभिः कृत्याः प्रतीची: अंज- न्ति इत्येतत् मे मह्यम् अस्माकम् अग्निराहेत्यर्थः । तदु तद् एव सोमो- प्याह । एवं बृहस्पतिः बृहतो मन्त्रजातस्य स्वामी एतन्नामको देवोप्याह । तथा सविता सर्वप्राणिनां प्रेरकः एतन्नामको देवोप्याह । किं बहुना । तत् साधनम् इन्द्रः मे आह । ते प्रसिद्धा अन्येपि देवाः पुरोहिताः पु- रतः संनिधापिताः पुरोहितवत् हितकारिणो वा । आहुरिति विपरि- णाम: कर्तव्यः ॥ अथ वा तत् स्रात्यमणिबन्धनस्य सर्वसंपासाधनत्वम् अमिराह । तदु तद् एव सोमोप्याह । एवं बृहस्पत्यादिष्वपि योज्यम् । ते ये अभ्यादयो मणे: सर्वफलसाधनवम् आहुः त एव पुरोहिताः फल- • निष्पादनविषये पुरतः स्थापिताः सन्तो मे मदर्थम् अन्यैरुत्पादिताः कृ- । 1S अभिभयात् 2S' अजंतित्यंत fium अजन्ति इत्येतत्. 3S' सर्वसंपन्साधनमनित्वम् अग्निराह for सर्वलंपत्साधनत्वम् अग्निह