पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२६ अथर्वसंहिताभाष्ये त्याः प्रतिसरैः फलसाधनतेन अभिहितैर्मणिभिः साधनैः प्रतीचीः अज- न्तु गमयन्तु इति व्याख्येयम् ॥ . षष्ठी ॥ अन्तर्दधे द्यावा॑पृथि॒वी उ॒ताहरुत सूर्य॑म् । ते मे॑ दे॒वाः पुरोहि॑िताः म॒तीची॑: कृत्याः प्र॑तिस॒रैर॑जन्तु ॥ ६ ॥ अ॒न्तः । दु॒धे॒ । द्यावा॑पृथि॒वी इति॑ उ॒त । अह॑ः । उ॒त । सूर्य॑म् । ते । मे॒ । दे॒वाः । यु॒रःऽहि॑ताः । प्र॒तीची॑ः । कृ॒त्याः । प्र॒ऽस॒रैः । अ॒जन्तु ॥ ६ ॥ द्यावापृथिवी दिवं च पृथिवीं च अन्तर्दधे कृत्यायाश्च मम च अन्त- रालदे दधे स्थापयामि व्यवधानं करोमि । उत अपि च अहरपि अ- न्तर्दधे । उत अपिच सूर्यमपि अन्तर्दधे । ते मे देवाः द्यावापृथिव्या- दयः । शिष्टं पूर्ववत् ॥ सप्तमी ॥ ये सू॒क्त्यं॑ म॒णि॑ जना॒ वर्माणि कृ॒ण्वते॑ । सूर्य॑ इव॒ दिव॑मा॒रुह्य वि कृ॒त्या बा॑धते व॒शी ॥ ७ ॥ ये । स्र॒क्त्यम् । म॒णिम् । जना॑ । वर्मा॑णि । कृ॒ण्वते॑ । सूर्य॑ऽइव | दिव॑म् । आ॒ऽरुह्य॑ । वि । कृ॒त्याः । वा॒धते । व॒शी ॥ ७ ॥

T: ये जना: कृत्यापरिहारार्थिनो मनुष्याः खात्यम् मणि वर्माणि तनु- त्राणि कृण्वते कुर्वते । स मणिः सूर्य इव दिवस आरुह्य दिवम आ- रूढः सूर्यो यथा तमांसि बाधते एवं वशी वशयिता सन् कृत्या: अ- न्योत्पादिता वि बाधते विशेषेण नाशयति ॥ अष्टमी | स्राक्त्येन॑ म॒शिन॑ ऋषि॑णे॒व मनी॒षिणा॑ । अजैषं सर्वाः पृत॑ना वि मृधौ हन्मि रक्षंस॑ः ॥ ८ ॥ स्राक्येन॑ । मणिना॑ । ऋषिणाऽइव | मनीषिणा । ' १ BBK मणिना ॠ. Sitya's test also has मणिना ॠ° C मणिना corrected into मणिन,