पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं काण्डम् | ६२७ अजैषम् । सर्वोः । पृत॑नाः । वि । मृध॑ः । हुन् । र॒क्ष॑स॑ ॥ ८ ॥ । [अ० ३. सु० ५.] ४४३ अहं साधक: स्रात्येन तिलकवृक्षविकारेण मणिना मनीषिणा विप श्चिता ऋषिणेव अतीन्द्रियार्थद्रष्ट्रा अथर्वाख्येन महर्षिणा यथा तथा । अथ वा ऋषिर्मन्त्रः । उक्तरूपेण मन्त्रेणेव मन्त्रेण यथा तथा सर्वाः पृ तना अजैषम् जितवान् अस्मि जयानि वा । तथा मृधः प्रमाथिनो रक्षस: राक्षसान् स्रात्येन मणिनैव वि हन्मि घातयामि ॥ नवमी ॥ या: कृत्या आङ्गिर॒सीर्याः कृत्या असु॑रीर्याः कृत्याः स्व॒यंकृ॑ता या उ॑ चा- न्येभि॒राभृ॑ताः । उ॒भयो॒स्ताः परा॑ यन्तु परा॒वतो॑ नव॒तं ना॒व्या॒ अति॑ ॥ ९ ॥ । या: । कृत्याः । आ॒ङ्गर॒सी: । याः । कृत्याः । आसुरीः । याः । कृत्याः । स्व॒- यम्ऽकृ॑तः । याः । ऊं इति । च । अन्येभिः । आऽभृ॑ताः । उ॒भयो॑ । ताः । परा॑ । य॒न्तु॒ । परा॒ऽवत॑ः । नव॒तिम् । ना॒व्याः । अति॑ ॥९॥ " आङ्गिरसी: आङ्गिरस्यः अङ्गिरसा प्रयुक्ता या प्रसिद्धाः कृत्या: स- न्ति । अङ्गिरसो महर्षेः कृत्यामयोगविधातृत्वम् आङ्गिरसकल्पाख्यसूत्रनि- र्माणादेव प्रसिद्धम् । तथा आसुरी: आसुर्य: असुरैर्निर्मिता याः कृत्याः सन्ति । एवं स्वयंकृताः परार्थप्रयोगे सति केनचिद् वैकल्येन स्वस्मिन्नेव पर्यवसिताः स्वयंकृता इत्युच्यन्ते । स्वस्मिन्नेव कृत्यापर्यवसानम् “यथेन्द्र- - शत्रुः स्वरतोपराधात् ” [शि०१०] इत्यादिषु प्रसिद्धम् । या उ च याः काश्चन अन्येभिः अन्यैर्मत्सरिभिः आभृता: आहताः प्रयुक्ताः कृत्याः सन्ति ता उक्तरूपा उभयी: उभय्यः उभयप्रकारा अपि परावतः दूरदेशात परा यन्तु परागच्छन्तु । ननु चतुष्प्रकारा निर्दिष्टाः कथम् उभयविधत्वम् इ- ति चेत् उच्यते । आङ्गिरस्यं: आसुर्यश्च अमानुष्य : एका कोटि: । स्वयं- (4 १ So we with all our authorities. See Rs. Sayana's truct. however, has: आसुरीः । याः &c. २A₹ for ३. ३ P कृत्य We with PJ Cr. 1S' प्रतिसिद्धाः 2S' 'विविधात् त्वम् BS' वैकल्प्येन. 1 S' परागच्छंतं.