पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२८ अथर्वसंहिताभाष्ये कृता अन्यैः कृताञ्च मानुष्य इत्यपरा इत्युभयविधवम् । परागमनस्य अवधिं दर्शयति नवतिम् इत्यादिना | नाव्याः नावा तार्या महानद्यः । ताच नवतिसंख्याका: । ता अति । अतिक्रम्येत्यर्थः ॥ दशमी || अस्मै मणि वर्म बभन्तु दे॒वा इन्द्र॒ो विष्णुः सवि॒ता रुद्रो अग्निः । प्र॒जाप॑तिः परमेष्ठी वि॒राड् वैश्वानर ऋषयश्च सर्वे ॥ १० ॥ (१२) अ॒स्मै । म॒णिम्। वर्म॑ ब॒न॒न्तु॒ । दे॒वाः । इन्द्र॑ । विष्णु॑ः । स॒वि॒ता । रु॒द्रः । अ॒ग्निः । प्र॒जाऽप॑तिः । परमे॒ऽस्थी । वि॒ऽराट् । वैश्वा॒न॒रः । ऋष॑यः । च । सर्वे ॥१०॥ (१२) अस्मै यजमानाय कृत्यापरिहारादिफलकामाय मणिम् स्राक्त्यं वर्म प रकृतकृत्यादिमहारपरिहारकं कवचं तत्स्थानीयं कृत्वा बभन्तु । के देवा- स्तन विशिनष्टि इन्द्रो विष्णुरित्यादिना । प्रजापतिः प्रजानां स्रष्टा स च परमेष्ठी परमे निरतिशये स्थाने वर्तमान: विराट् कृत्स्नब्रह्माण्डाभि- मानी देवः वैश्वानरः विश्वेषां नराणां हितो जाठरोग्निः हिरण्यगर्भो वा । स्पष्टम् अन्यत् ॥ इत्यष्टमकाण्डे तृतीयेनुवाके प्रथमं सूक्तम् ॥ 66 “ उत्तमो असि” इति सूक्तस्य पूर्वसूक्तेन सह उक्तो विनियोगः ॥ तत्र प्रथमा ॥ उत्तमो अस्योष॑धीनामनन् जग॑तामिवँ व्याघः श्वप॑दामिव । यमैच्छ॒मवि॑दाम तं म॑ति॒स्पाश॑न॒मन्त॑तम् ॥ ११ ॥ उत॒मः | असि । ओष॑धीनाम् । अन॒ड्वान् । जग॑ताम्ऽइव । व्यामः । श्वप॑दामऽइव ।.. १ Pomit the visarga. २R अ॒स्योष॑० ३K न॒ जग॑॰: We with ABBD KR S VC. ४ We omit the vertical stroke from after °मिव and put it after श्वर्यदामिव with ABBDKKRSVCs. See Rs. So we with all our MSS. and vaidikas. ६ So we with all our authoritie. See Rw. 19' यातायाः for तार्या,