पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ३. सु° ५.] ४४३ अष्टमं काण्डम् । ६२९ यम् । ऐच्छम । अवि॑दामं । तम् । प्रति॒िऽस्पार्शनम् | अन्तितम् ॥ ११ ॥ हे मणे मण्युपादान वृक्ष वा त्वम् उत्तमोसि सर्वाभिमतफलसाधनवेन व्याघो कतिपयफलसाधिकानाम् ओषधीनां मध्ये श्रेष्ठोसि । उत्तमत्वे दृष्टान्तम् आह । अनड्वान् अनोवहनसमर्थ: पुंगवो जगतामिव गच्छतां चतुष्पदां मध्ये यथा उत्तमस्तद्वत् । अनडुह उत्तमत्वम् 'अनड्वान् दाधार पृथि- वीम् ” [४.११] इत्यत्र प्राग् उक्तम् । उपकारकत्वे दृष्टान्तम् अभिधा- य शत्रुहिंसादिक्रूरकर्मणि दृष्टान्तम् आह व्याघ्रः श्वपदामिवेति । श्वपदः वृकसृगालाद्या अरण्यदुंष्टमृगाः । तेषां मध्ये व्याघ्र इव । व्याघाणाद् व्यादाय हन्तीति वेति यास्क: [ नि० ३.१४]४ । यम् ईदृग्विधं सर्वपुरुषार्थसाधनाय ऐच्छाम तम् अविदाम लब्धवन्तः स्मः । अथ वा यं त्वया साध्यं पुरुषार्थम् ऐच्छाम तम् अविदाम । न्दतेर्लुङि ले: अङ् । तं विशिनष्टि । प्रतिस्पार्शिनम् अभिचरतः प्रतिमुखं बाधकम् । अन्तितम् अत्यन्तसंनिहितम् । अथवा तं तमेव प्र- तिस्पाशिनं प्रतिकूलं बांधनावन्तं द्वेष्टारम् अँन्ति अन्तिके अविदाम ॥ द्वितीया ॥ · स इद् व्या॒धो भ॑व॒त्यथो॑ मि॒हो अथो॒ वृषा॑ । अथो॑ सपल॒कश॑नो॒ यो बिभ॑नी॒मं म॒णम् ॥ १२ ॥ । सः । इत् । व्याघ्रः । भवति । अथो इति॑ । सिंहः । अथो इति । वृषा॑ । अथो इति । स॒पत्न॒ऽकशनः । यः । बिभर्ति | इ॒मम् । मणिम् ॥ १२ ॥ उपमाप्रधाना व्याघ्रादिनिर्देशा: । व्याघ्र इव सिंह इव च पराभिभ- वनशीलो भवति [ स इत् ] | स एवेत्यर्थः । अथो अपि च वृषेव स यथा गोषु स्वच्छन्दसंचारी भवति तद्वत् स भवतीत्यर्थः । अथो अपि च स एव सपनकर्षण: शत्रुविनाशकश्च भवति । स इत्युक्तम् क इ- त्याह । यः पुरुष: इमम् उक्तमहिमोपेतं मणि बिभर्ति धारयति स इद् इति संबन्धः ॥ ● १ P अविदाम्. We willi P JUr 1 Sáyana's text in S, howeve:- उत्तमो अस्यो. 2S' 'हृष्ट°. 3S' बाधर्मावंतं.