पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३० अथर्वसंहिताभाष्ये तृतीया || नैनं॑ प्र॒न्त्यस॒रो न ग॑न्ध न मर्त्योः । सर्वा दिशो वि रा॑जति॒ यो विभ॑र्तीम॑ म॒णिम् ॥ १३ ॥ न । एनम् । नन्ति । अप्सरस॑ः । न । गन्धर्वाः । न । मर्त्योः । सर्वोः । दिश॑ः । वि । राजति । यः । बिभर्ति | इमम् | मणिम् ॥ १३ ॥ सर्वा दिशः प्रति । सर्वासु दिवित्यर्थः । वि राजति । सर्वदिक्स्वामी भवतीत्यर्थः । स्पष्टम अन्यत् ॥ ~ कश्यप॒स्त्वाम॑सृजत कश्यप॑स्त्वा॒ सम॑रयत् । अवि॑भस्वेन्द्रो मानु॑षे विभ्रत् संश्रेषणे जयत् । म॒णि॑ि स॒हस्र॑वीयै॒ वर्म॑ दे॒वा अंकृण्वत ॥ १४ ॥ क॒श्यप॑ः । त्वाम् । अ॒सू॒जत॒ । क॒श्यप॑ः । त्वा॒ा । सम् । ए॒रयत् । अवि॑भः । त्वा॒ । इन्द्र॑ । मानु॑षे । बिभ्रत् । स॒मऽश्रेषणे । अ॒जयत् । मणिम् । स॒हस्र॑ऽवीर्यम् । वर्म॑ । दे॒वाः । अकृण्वत ॥ १४ ॥ चतुर्थी || कश्यपः प्रजापतिः हे मणे लाम् असृजत सृष्टवान् । अनेन जन्मतः प्राशस्त्यम् उक्तम् । तथा स एव कश्यपः त्वा त्वां समैरयत् स- र्वोपकारकत्वाय प्रेरितवान् । अनेन प्रयोक्तगौरवद्वारा प्राशस्यम् उक्तं भ- वति । अथ धारयितृगौरवादपि प्राशस्त्यं दर्शयति अबिभस्वेन्द्र इति । हे प्रशस्तमणे त्वा त्वाम् इन्द्रः सर्वदेवाधिपतिः स्वकीयवृत्रहननादिसिद्धये स्वा- राज्यप्राप्तये च अबिभः भरणं कृतवान् । यस्माद् एवं तस्मात् त्वां मा- नुषे | जातावेकवचनम् । मानुषेषु मध्ये बिभ्रत् पुरुष: श्रेषणे पर- स्परसंश्लेषणसाधने संग्रामे अजयत् जयति ॥ · पञ्चमी ॥ सहस्रवीर्यम् अपरिमितसामर्थ्य मणिम् स्राक्त्यं देवाः पुरा वर्म कवचम् अकृण्वत कृतवन्तः वर्मवद् रक्षाकरम् अकुर्वन् । १ K श्रेषणज॑यत् We witl: ABDKRSVC..