पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं काण्डम् | षष्ठी ॥ यस्त्वा॑ कृ॒त्या॑भि॒र्यस्त्वा॑ द॒ीक्षाभि॑र्य॒ज्ञैर्यस्त्वा॒ जिघा॑सति । प्र॒त्यक् त्वमि॑न्द्र॒ तं ज॑हि॒ वज्रेण श॒तप॑र्वणा ॥ १५ ॥ यः । त्वा॒ा। कृ॒त्याभि॑ः । यः । त्वा॒ा । दीक्षाभि॑ः । य॒ज्ञैः । यः । त्वा॒ । जिघैसति । प्र॒त्यक् । त्वम् । इ॒न्द्र॒ । तम् । ज॒हि॒ । वज्रेण | शतऽप॑र्वणा ॥ १५ ॥ । [अ० ३. सू० ५.] ४४३ हे शान्तिकाम पुरुष यः पुमान् वा त्वां कृत्याभिः हिंस्राभिः क्रिया- भिः जिघांसति हन्तुम् इच्छति यश्च त्वा त्वां दीक्षाभिः यज्ञियैर्वाग्यमना- दिनियमविशेषैः जिघांसति । तथा यश्च त्वां यज्ञैः हिंसासाधनैः श्येने- स्वादिभिर्यागैः जिघांसति तं पुमांसं घातकम् हे इन्द्र इन्द्रात्मक त्वं शत- पर्वणा शतसंधिकेन वज्रेण प्रत्यक् प्रतिमुखं जहि घातय ॥ सप्तमी ॥ • अयमिद् वै म॑तीवर्त ओज॑स्वान् सं॑ज॒यो म॒णिः । प्र॒जां धनं॑ च रक्षतु॒ परि॒पाण॑ सु॒म॒ङ्गल॑ः ॥ १६ ॥ ६३१ अयम् । इत् । वै । प्रति॒िऽवर्तः । ओज॑स्वान् । सम्ऽजयः । मणिः । प्र॒ऽजाम् । धन॑म् । च॒ । र॒क्षतु । प॒रि॒ऽपान॑ । सु॒ऽम॒ङ्गल॑ः ॥ १६ ॥ अयं मणिः प्रतीवर्त इद् वै कृत्यादिप्रतिवर्तनसाधन एव खलु । तिपूर्वाद् वृतेः करणे घञ् । “उपसर्गस्य घञ्यमनुष्ये बहुलम्” इति दीर्घः । 'थाथघञ्ताजबित्रकाणाम्' इति उत्तरपदान्तोदात्तत्वम् ४ । ओ- जस्वान अतिशयितौजा: संजय: संगतजयः सम्यग् जेता वा । स मणिः प्रजाम पुत्रादिरूपां धनं च रक्षतु पालयतु । पुनर्विशेष्यते । परिपाण: परिपातीति परिपाण: मां परितो रक्षकः । ॐ नन्द्यादित्वात् त्युः । णत्वं छान्दसम् । सुमङ्गलः शोभनमाङ्गल्यसाधनभूतः ॥ अष्टमी ॥ असपलं नो॑ अधराद॑सप॒लं न॑ उत्तरात् । इन्द्रा॑सप॒त्तं नः॑ प॒श्चा ज्योति॑िः शूर पुरस्कृत ॥ १७ ॥ ""