पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ३. सू°० ५.] ४४३ अष्टमं काण्डम् | ६३३ तत् । मे॒ । त॒न्वम् । त्र॒य॒ताम् । स॒र्वत॑ः । बृ॒हत् । आयु॑ष्मान् । ज॒रतऽअ॑- ष्टिः । यथा॑ । असा॑नि ॥ १९ ॥ . -

यत् मणिलक्षणम् ऐन्द्रामम् इन्द्राग्निदेवताकम् इन्द्राग्निभ्याम् अभिमा- नितं बहुलम् प्रभूतम् उग्रम उहूर्णवलं वर्म कवचम् तद् विश्वे देवाः एतत्संज्ञया व्यवहियमाणा देवा: सर्वेपि नातिविध्यन्ति अतिवेधनं न कु- र्वन्ति । किं तु सर्वेपि पालयन्तीत्यर्थः । तत् तथाविधं मणिलक्षणं वर्म मे तन्वम् तनूं शरीरं सर्वतः त्रायताम् पालयतु । कीदृक् तत् । बृ- हत् प्रभूतम् । अहं च यथा आयुष्मान् शतसंवत्सरेण आयुष्येण त द्वान् जरदष्टि: जीर्णावस्थापर्यन्तम् अशनवान असानि भूयासं तथा त्रा- यताम् ॥ एकादशी | आ मा॑रुक्षद् देवमणिर्मह्या अरिष्टता॑तये । इ॒मं मे॒थिम॑भि॒संवि॑िशध्वं तनूपानं॑ त्रि॒वरू॑थ॒मोज॑से ॥ २० ॥ आ। मा । अरुक्षत । दे॒वम॒णिः । मौ । अरिष्टऽता॑तये । इ॒मम् । मे॒थिम् । अ॒भि॒िऽसंवि॑िशध्वम् । त॒नूऽपान॑म् । त्रि॒ऽवरू॑थम् । ओ- जैसे ॥ २० ॥ देवमणि: देवेन इन्द्रेण धृतत्वाद् वा देवै: इन्द्राम्यादिभिरभिमानित- वाद् वा देवमणि: । स मा माम आरुक्षत भुजादिप्रदेशम आरूढ- वान् । किमर्थम् । मह्ये महत्यै । मह्यम् इति वा । अरिष्टतातये । रिष्टं नाशस्तदभावः अरिष्टम् अरिष्टकरणाय । क्षेमायेत्यर्थः । किं च हे नराः यूयमपि इमं मेथिम् शत्रूणां विलोडयितारं विन्मशयितारम् । य- डा मेथी खले यथा उच्छिरा वर्तते एवम् अयमप्रीति मेथीवत् मेथिः । तम् अभिसंविशध्वम् अभितः सम्यग् आश्रयध्वम् । अथ वा इमं मे- थीस्थानीयं मणिम् हे इन्द्रादिदेवा यूयम् अभिसंविशध्वम् अधितिष्ठत कीदृशम् । तनूपानम् तन्त्रा शरीरस्य पांतारम् त्रिवरूथम् त्रिविधावर- 1$' तन्वः. -2 S' धाता'. ८० 4-