पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३४ अथर्वसंहिताभाष्ये णोपेतम् आद्यन्तमध्यभागैख्यात्मकं वा । किमर्थम् अभिसंवेशनम् इति उच्यते । ओजसे बलाय बलाभिवर्धनाय ॥ द्वादशी ॥ अ॒स्मिन्निन्द्रो॒ नि द॑धातु नृ॒म्णमि॒मं दे॑वासो अभि॒संवि॑शध्वम् । दी॒र्घायु॒वाय॑ श॒तशा॑रायायु॑ष्मा॑न् ज॒रद॑ष्टर्यघास॑त् ॥ २१ ॥ अ॒स्मिन् । इन्द्र॑ः । नि । द॒धा॒ातु । नृ॒म्णम् । इ॒मम | दे॒वाः । अ॒भि॒िऽस॑वि॑- शध्वम् । दी॒र्घायु॒ऽत्वाय॑ । श॒तऽशा॑रदाय । आयु॑ष्मान् । ज॒रऽअ॑ष्टः । यथा॑ । अ- सेत् ॥ २१ ॥ अस्मिन् मणौ इन्द्रो देवो नृम्णम् सुखम् अस्मदभिमतं नि दधातु स्थापयतु । इमं मणिम हे देवासः देवा यूयम् अभिसंविशध्वम् अभितः अधितिष्ठत । किमर्थम् एवं प्रार्थनेति चेत् उच्यते । दीर्घायुवाय प्रभू- तस्य आयुषः प्राप्तये । एतस्यैव व्याख्यानं शतशारदायेति । शरच्छब्देन तदुपलक्षितः संवत्सरोभिधीयते । शतसंख्याका: शरदः शतशरदः । श- नशरत्संख्यायुः शतशारदम् तस्मै | तस्यैव तात्पर्यम् आह । आयुष्मान् उक्तशतसंवत्सरलक्षणेन आयुष्येण युक्तः । न केवलम् आयुर्वृद्धिरेव प र्याप्ता किंतु तावत्कालम् अशिष्ठेनापि भवितव्यम् इत्यभिप्रेत्याह जरदष्टि- रिति । उक्तो जरदष्टिशब्दार्थः । उक्तगुणद्वयविशिष्टो यथा येन प्रकारेण असत् भवेत् तथास्मिन्निन्द्रो नृम्णं दधातु | देवा अपि इमम् अभिसं विशध्वम् इति संबन्धः ॥ त्रयोदशी ॥ स्व॒स्ति॒दा वि॒शा॑ पति॑र्वृत्र॒हा वि॑मृधो व॒शी । इन्द्रो बभातु ते मणि जिंगीवाँ अप॑राजिंतः सोम॒प्मा अ॑भयंक॒रो वृषा॑ । २AR put a vertical stop after जितः. We with ABBDK १ K यु॑ष्मांजर. RSvc. 1S आशिष्टेन.