पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ३. सू° ६.] ४४४ अष्टमं काण्डम् | स त्वा॑ रक्षतु सर्वतो॒ दिवा न च वि॒श्वत॑ः ॥ २२ ॥ (१३) स्व॒स्ति॒ऽदाः । वि॒शा॑म् । पति॑ः । वृत्र॒ऽहा । वि॒ऽमृधः । व॒शी । । इन्द्र॑ । ब॒भू॒तु॒ । ते॒ । म॒णिम् । जि॒गवान् । अप॑राऽजितः । स॒सो॒म॒ऽपाः । अभयम्ऽकरः । वृषा॑ । सः । त्वा । रक्षतुं । सर्वत॑ः । दिवा॑ । नक्त॑म् । च । विश्वत॑ः ॥ २२ ॥ (१) इन्द्रो देवः ते तव उक्तमहिमोपेतं मणि बधातु इति वाक्यार्थः । कीदृश इन्द्र इति तं विशिनष्टि । स्वस्तिदाः स्वभक्तानाम् अविनाशिल- क्षणक्षेमप्रदाता | स्वयं च विशाम् देवमनुष्यादिलक्षणानां प्रजानां पति: पालयिता स्वामी । वृत्रहा वृत्रस्य असुरस्य हन्ता । विमृधः विगतंयुद्ध: विविधं शत्रुविनाशकारी वा । वशी सर्वस्य वशयिता | जिगीवान् ज- यशीलः । अपराजितः स्वयम् अन्यैरनभिभूतः । सोमपाः सर्वेष्वपि सो- मयागेषु स्वयमेव मुख्यत्वेन सोमस्य पाता । अभयंकरः अभयं भयरा- हित्यं तस्य कर्ता । वृषा सेक्ता अतिशयितपुंस्व॑स्य अभिमतफलस्य वर्षिता वा । स तादृशो देवो मणि बड्डा वा त्वां सर्वतः सर्वस्मादपि भयनि- मित्ताद् रक्षतु । किम एकदा । नेत्याह । दिवा नक्तं च । सर्वदेत्य- र्थः । सर्वत इत्युक्तमेवार्थम् आदरार्थ पुनराह विश्व इति ॥ इत्यष्टमकाण्डे तृतीयेनुवाके द्वितीयं सूक्तम् ॥ ८८ 'यौ ते माता ६३५ "" 66 · इति सूक्तत्रयम् अर्थसूकम् । अस्य अर्थसूक्तस्य 'दिव्यो गन्धर्व: [२.२] इमं मे अग्ने [ ६. १११] यौ ने माता [t. ६] इति मातृनामानि " इति [ कौ° १,७] मातृगणे पाठात् शान्त्युद- काभिमन्त्रणाद्भुतहोमशान्तिहोमादौ गणमयुक्तो विनियोगोवगन्तव्यः । सू- त्रितं हि । 'वास्तोष्पत्यादीनि महाशान्तिम आवपते " इति [ कौ० ५. [] | "दिव्यो गन्धर्व इति मातृनामभिर्जुहुयात्” इति [ कौ° १३.२] । “चातनैर्मातृऩामभिर्वास्तोप्पत्यैराज्यं जुहुयात्" इत्यादि [शा० क° १६] ॥ १PP रक्षन्तु J रक्षन्तु changeel to रक्षतु. We with Cr 19 1S ' ॰ पुंस्त्वम्. 2S विवस्वत विश्वत 3S प्रत्यादिमहा° &c. We with Kausika.