पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं काण्डम् । श्रेषि॑ व॒विवा॑ससमृग्रीवं प्रमीलन॑म् ॥ २ ॥ । पलालऽअनुपलालौ । शकुंम् । कोक॑म् | म॑ल॒म्लुचम् । प॒लीज॑कम् । आऽश्रेष॑म् । वव्रिऽवससम् | ऋऽग्रीवम् । प्रऽमीलिन॑म् ॥ २ ॥ । [अ॰ ३॰ सू° ६॰] ४४४ ६३७ यद्वा । पलालानुपलाली पलालवत् पलालः । अतिनुच्छाङ्ग इत्यर्थ: । अनु- पलालोपि तादृशः | तो द्वावपि नाशयामीति शेषः । शर्कुरेक: शर्- शर् इति कौति शब्दयत इति शर्कुः । तं च विनाशयामि । एवम् उत्तरत्रापि । कोकम् | कोकश्चक्रवाकः । तदाकारेण वर्तमानः कोकः । ४ कुक वृक आदाने | पचाद्यजन्तः ४ । बलादे: आ- दातारं संहर्तारम् । मलिम्लुच: अत्यन्तमलिनः तं च | पलीचकम् पल्या पलितेन चकत इति पलीचक: जरठवद् वर्तमान: पलितकारी वा । आश्रेषम आश्लिष्यतीत्याश्रेष: आश्लिष्य हन्तारं पीडयितारम् । वत्रिवा- ससम् वत्रिः रूपनाम । रूपोपेतवसनवन्तम् । ऋक्षग्रीवम् ऋक्षस्य वान- रविशेषस्य ग्रीवेव ग्रीवा यस्य तादृशम् । प्रमीलिनम् प्रमील: अक्षिसं- कोच: । प्रतिक्षणं संकुचन्नेत्रम् इत्यर्थः । एते सर्वे गर्भिण्यादीनां पीड- काः । तान् प्रत्येकं नाशयांमीत्यर्थः ॥ तृतीया ॥ मा सं वृ॑तो॒ मोप॑ सृप ऊ॒रू माव॑ सृपोन्तरा । कृ॒णोम्य॑स्यै भेष॒जं व॒जं दु॑र्णाम॒चात॑नम् ॥ ३ ॥ मा । सम् । वृत॒ः । मा । उप॑ । सृप॒ः । ऊ॒रू इति॑ । मां । अव॑ । सृप॒ः । अन्तरा । कृ॒णोति॑ । अ॒स्यै॒ । भेष॒जम् । व॒जम् । दुर्नाम॒ऽचात॑नम् ॥ ३ ॥ हे दुर्नामाख्यरोगाभिमानिन् अस्या ऊरू अन्तरा ऊर्वोर्मध्ये । x“अ- न्तरान्तरेण युक्ते " इति द्वितीया ४ । मा सं वृत्तः संवृतिं संकोचं वा मा कार्षीः । X वृतु वर्तने । “युद्भ्यो लुङि” इति परस्मैप - १P मलिम्लुचम्. २P मा. So all our MSS. and vaidikas. 18/पलितकारि. 2S' नाशयतीत्यर्थ: 3S/ अस्य fol अस्याः.