पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६
अथर्वसंहिताभाष्य

गृहे युष्मदनुग्रहाद् अयं कपोतः पक्षी नः अस्मान् मा हिंसीत मा बाधिषु ॥

चतुषीं ॥

ऋचा कृपोतै नुदत मुणोदुमिषं मदन्तः परि गां नयामः ।
संलोभयन्तो दुरिता पुदानि हित्वा न ऊर्जे म पंत पंथिष्ठः ॥ १ ॥
ऋचा । कपोतंम्। नुदत । प्रश्नोदंस। इर्षम् । मर्दन्तः। परि। गाम। नद्याः।
सम्ऽलोभयन्तः। दुःऽङ्कता । पदानि । हित्वा । नः। ऊर्जम् । प्र। पदात् । ॥ १ ॥

हे देवः ऋचा अनेन मन्त्रेण [कपोतम्] कपोताख्यं पक्षिणं प्रनोद प्रकर्षेण नोदनीयं पेरणीयं नुदत अस्मतृहात् प्रेरयत । वयं च इषम् अन्नं प्राप्य मदन्तः तृप्तः सन्तः गां परि नयामः परितः सर्वतः संचारयामः । गोसंचारणेन शान्ति कुर्म इत्यर्थः । किं कुर्वन्तः । दुरिता दुरितानि दु गैत्तिनिमितानि पदानि कपोतस्य पादनिधानस्थानानि संलाभयन्तः स म्यक प्रमार्जयन्तः ॥ स च नः अस्माकम् ऊर्जम् बलकरं पचनशालास्थम् अन्नं हित्वा त्यका पतिीः पततां पक्षिणां श्रेष्ठः सन् प्र पतत् प्रपतेत्। । ॐ पतु गतौ । अस्मात् लेटि आडागमः । पतिष्ठ इति । अस्मादेव तृजन्ताद् आतिशायनिक इष्ठन् । “तुरिठेमेयस्सु” इति तृलोपः ।

पञ्चमी ।

परीमेन्निर्मर्षर्त परीने गामनेषत
देवेष्वक्रत श्रवः क इम आ दधर्षति ॥ २ ॥
परिं । इमे । अग्निम् । अर्धत । परि । इमे । गाम् । अनेषत ।
देवेषु । अक्रत । श्रवः । कः। इमान् । आ । दधर्षति ॥ २ ॥

इमे ऋत्विजः कपोतप्रवेशशान्यर्थम् अमेिं पर्यषेत । परितो होमार्थ ।


१ - प्रथिष्टः ( ). २ x, P P J K Cr crand not पथिंऽस्थः. Dove tle : e of the agraha, likwale :e५nt, suggest पतिष्टः :- the original ruling ३ D K S V १ fir १. we with A BK KR c, ४ A D R S C "मरिषत. C अरिषत. We with B K KP = v.