पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ३॰ सू° ६.] ४४४ अष्टमं काण्डम् । ६४९ रक्षतु । कस्मै प्रयोजनायेति उच्यते । प्रजायै प्रजार्थ पुत्रलाभार्थ] [[पत्ये ] पत्यथै पत्युरानुकूल्यांर्थं च ॥ द्वितीया ॥ व्यास्पाच्चतुरक्षात् पञ्च॑पादादनहुरेः । वृन्ता॑द॒भि प्र॒सर्प॑त॒ परि॑ पाहि वरीवृतात् ॥ २२ ॥ द्विऽओस्यात् । च॒तुःऽअ॒क्षात् । पञ्च॑ऽपादात् । अ॒ङ्कुरे: । वृन्ता॑त् । अ॒भि । प्र॒ऽसर्व॑तः । परि॑ । पा॒हि॒ । ब॒र्य॑वृतात् ॥ २२ ॥ ● यास्यात् हे आस्ये पुरः पश्चाच्चेति वा पुरत एव वा यस्य स्तः स व्यास्यः । तस्मात् । यत एवम् अतोसौ चतुरक्षः अक्षचतुष्टयवान् । त- स्मात् । पञ्चपादात् पादपञ्चकोपेतात अनङ्गुरे: अङ्गुलिरहिताद् वृन्तात् लतापुञ्जात् अभिप्रसर्पतः अभिमुखं गच्छतः । अथ वा वृन्तात् वृत्त- वद् वृन्तं शिरः पादाग्रं वा तस्मात् । अवाग्भूयाभिगच्छतः पश्चात् वरी- वृतात् भृशं सर्वाङ्गं व्याप्य वर्तमानात हे ओषधे त्वं परि पाहि परि- तो रक्ष ।

  • वृतु वर्तने । अस्माद् यङ्कुगन्तात् पचाद्यचि “रीगृदुप-

धस्य च " इत्यभ्यासस्य रीगागमः । “न धातुलोप आर्धधातुके" इति गुणप्रतिषेधः ॥ तृतीया || य आमं मांसम॒दन्ति॒ पौरुषेयं च॒ ये क॒विः । गर्भान् खाद॑न्ति केश॒वास्तानि॒तो ना॑शयामसि ॥ २३ ॥ ये । आ॒मम् । मांसम् । अ॒दन्ति । पौरु॑षेयम् । च । ये । ऋविः ! गन् । खाद॑न्ति । के॒श॒ऽवाः । ताल् | इतः । नाशयामसि ॥ २३ ॥ ये पिशाचा आमम अपकं मांसम् अदन्ति भक्षयन्ति ये च पौरुषे- यम पुरुषस्य संबन्धि ऋविः । ऋविस्शब्दो मांसवचनः । “य आमस्य · ऋविषो गन्धो अस्ति" इति हि मन्त्रान्तरम् [ऋ० १.१६२.१०] | म- ₹ PPJ KC अनमगुरे: We th Siyana. 1 $ अवङ्ग्याभि°. ८३