पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ३. सू० ६.] ४४४ ६५१ अष्टमं काण्डम् । यमाना स्त्रियं वा मा ऋन् मा कुर्वन्तु | पीडोयाम इति शेषः । अथ i वा जायमानं पुमांसं वस्तुतः पुंगर्भ स्त्रियं मा कन् स्वयपत्यं मा कु- र्वन्तु । यथा एवं न भवति तथा रक्ष । केचन भूतविशेषाः पुंगर्भ स्त्रीगर्भ कुर्वन्ति स्वसामर्थ्यात् । करोतेर्माङि लुङि “मन्त्रे घस" इत्यादिना हेर्लुक्छ । किं च अपरे आण्डाद: आण्डप्रदेशभक्षका: । दोनन्ने” इति विट् । ते पिशाचा: गर्भान् मा दभन् मा हिंस- न्तु | तान् उभयविधान् किमीदिन: किम इदं किम इदम् इति चर- तो रक्षःप्रभृतीन हे पिङ्ग इत: गर्भिणीसकाशाद् बाधस्व पीडय || षष्ठी ॥ अप्रजास्त्वं मात॑वत्स॒मद् रोद॑म॒घमा॑व॒यम् । वृक्षादि॑व॒ स्रज॑ कृ॒त्वाभि॑ये॒ प्रति॑ मुञ्च॒ तत् ॥ २६ ॥ (१६) अ॒प्र॒जाः त्वम् । मार्तंऽवत्सम् । आत् । रोद॑म् । अ॒घम् । आ॒ऽव॒यम् । वृक्षाऽइ॑व । स्रुज॑म् । कृ॒त्वा । अमि॑ये । प्रति॑ । मु॒ञ्च॒ । तत् ॥२६॥ (१२ ) । । हे पिङ्ग त्वम् अस्या गर्भिण्या यद् अप्रजास्वम् अपत्यविधुरत्वम् य च मार्तवत्सम मृतवत्सत्वं दौर्भाग्यम् आत् अपि च रोदम् सर्वदा उत्प द्यमानं दुःखं हृद्रोदनं वा । अधववयम् अघानां पापानां तत्फलभूता- नां दुःखानां वा असकृद् वयनम् । एतानि सर्वाणि । वृक्षादिव स्रजं कृ- त्वा यथा वृक्षाद् बहूनि पुष्पाणि आदाय मालां निर्माय प्रियतमे प्रति- मुञ्चति तद्वत् अमजास्वादिकानां स्रजं कृत्वा तत् माल्यम् अप्रिये द्वेष्ये प्रति मुञ्च संयोजय ॥ । इत्यष्टमकाण्डे तृतीयेनुकाके पञ्चमं सूक्तम् ॥ समाप्तश्च तृतीयोनुवाकः ॥.. 1 $' पीडयाम् for पीडाया. '2 $' हड्रोदनं.