पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

“दिवस्पृथिव्याः” इति चतुत्रिंशत्यात्मकम् । तत्र प्रथमासु दशञ्जु मधुकशाया गोरूपेण वर्णनम् । द्वितीये दशके वर्चस आ- शंसनम् अश्विभ्यां सकाशाद् इतरदेवेभ्यश्च । शिष्टास्त्रक्षु कशायाः पुनरपि वर्णनम् ॥ सांप्रदायिकास्तु एवं विनियुअन्ति । “ दिवस्पृथिव्याः" इत्यर्थसूक्तस्य मेधाजननकर्मणि वर्चस्यकर्मणि च विनियोगः । एत द्विस्तर: "प्रातरभिम्" इति सूक्ते [३.१६] द्रष्टव्यः ॥ " उत्सर्जन कर्मणि “ यथा सोमः प्रातः सवने” [९.१.११-२४] इति सूक्तम् आज्यहोमे विनियुज्यते । तद् उक्त कोशिकेन । “ गिरावरगगटेषु [६.६९] यथा सोमः प्रातःमत्रने” इति [को०१४.३] ॥ तथा " दिवस्पृथिव्याः” इति सूक्तं सोमयागे सोमसेवने विनियुज्यते । तद् उक्तं वैताने । “दिवस्पृथिव्या इति मधुसूक्तेन राजानं संश्रयति" इति [वै० ३.६] ॥ दि॒वस्पृ॑थि॒व्या अ॒न्तरि॑क्षात् समुद्राद॒ग्नेर्वातन्मधुकशा हि जज्ञे । तां वा॑यि॒त्वामृतं॒ वसा॑नां ह॒द्भिः प्र॒जाः प्रत नन्दन्ति॒ सर्वा॑ः ॥ १ ॥ दि॒वः । पृ॒थि॒व्याः । अ॒न्तरि॑क्षात् । स॒मु॒द्रात् । अ॒ग्नेः । वाता॑त् । मधुऽक॒शा | हि । जज्ञे । ताम् । च॒ाय॒त्वा । अ॒मृत॑म् । वसा॑नाम् । ह॒त्ऽभिः । प्र॒जाः । प्रति॑ । न॒न्द॒न्ति॒ । सर्वोः ॥ १ ॥ महत् पयो॑ वि॒श्वरू॑पमस्याः समु॒द्रस्य॑ त्वा॒ोत रेत॑ आहुः । यत॒ ऐति॑ मधुक॒शा ररा॑णा॒ा तत् प्रा॒णस्तद॒मृतं॒ निवि॑ष्टम् ॥ २ ॥ म॒हत् । पय॑ः । वि॒श्वऽरू॑पम् । अ॒स्या॒ाः । स॒मु॒द्रस्य॑ । त्वा॒ा । उ॒त । रेत॑ः । आ॒हुः । यत॑ । आ॒ऽएति॑ । म॒ध्रु॒ऽक॒शा । ररा॑णा । तत् । प्रा॒णः । तत् । अ॒मृत॑म् | निऽवि॑ष्ट॒म् ॥ २ ॥ पश्य॑न्त्यस्याश्चर॒तं पृ॑थि॒व्यां पृथि॒रो बहुधा मीमौसमानाः । अ॒ग्नेर्वान्मधुक॒शा हि ज॒ज्ञे म॒रुता॑मु॒ग्रा न॒प्तिः ॥ ३ ॥ पश्य॑न्ति । अ॒स्या॒ाः । च॒रि॒तम् । पृथि॒व्याम् । पृथ॑क् । नर॑ः । बहुऽधा | मीमा॑समानाः । अ॒ग्नेः । वाता॑त् । म॒धुऽव॒शा | हि । ज॒ज्ञे । म॒रुता॑म् । उ॒ना । न॒प्तिः ॥ ३ ॥ मा॒तादि॒त्याना॑ दुहि॒ता वसू॑नां प्रा॒णः प्र॒जाना॑म॒मृत॑स्य॒ नाभः ! हिर॑ण्यवर्णा मधुशा घृताची महान् भंगैश्चर॑ति॒ मर्त्येषु ॥ ४ ॥ १ Pomits the avagral. We witli PJ Cr. २D पृ॑थि॒व्याः We with A BKKR SVD. C. PPJ Cr. ३ AR पृथग्नरौ. We with BDKSV DCs. ४So we with ABDKKRŚVDe C. P† JCr. See Rw.