पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ अपर्वसंहिताभाष्ये द्वितीया ॥ रु॒द्रो व ग्रीवा अशरैतं पिशाचाः पृ॒ष्टीर्वोणि॑ि शृणातु यातुधानाः । वी॒रुद् वो॑ वि॒श्वतो॑वीर्या॑ य॒मेन॒ सम॑जीगमत् ॥ २ ॥ रु॒द्रः । वः॒ः । ग्रीवा॒ः। अशरैत् । पि॒शाचा॒ाः । पृ॒ष्टी: । : । अपि॑ शृणातु । यातु॒ऽधा॒नाः । वी॒रुत् । वः॒ः । वि॒श्वत॑ऽवीर्यौ । य॒मेन॑ । सम् । अजीगमत् ॥ २ ॥ हे पिशाचाः पिशिताशनाः वः युष्माकं ग्रीवा: गलावयवान रुद्रः संहर्ता देव: [ अशरैत ] छिनतु ॥ हे यातुधानाः वः युष्माकं पृष्टी: पा वस्थीनि स एव रुद्रः अपि शृणातु हिनस्तु ॥ विश्वतोवीर्या सर्वतः प्राप्तवीर्या वीरुत् ओषधिश्च वः युष्मान यातुधानान् यमेन मृत्युना सम् अजीगमत् संगमयतु ॥ तृतीया ॥ अभ॑यं मित्रावरुणावि॒हास्तु॑ नो॒र्चिषा॒ात्तिर्णो नु॒द॒तं प्र॒तीच॑ः । मा ज्ञाता मा प्र॑ति॒ष्ठां वि॑दन्त मि॒थो वि॑घ्प्रा॒ाना उप॑ यन्तु मृत्युम् ॥ ३ ॥ अभ॑यम् । मि॒त्राव॒रुणौ । इ॒ह । अस्तु । नः । अ॒र्चिषा॑ । अ॒त्रिण॑ः । नु॒द॒- त॒म् । प्र॒तीच॑ । मा । ज्ञातार॑म् । मा । प्र॒ऽस्याम् । वि॒िद॒न् । मि॒िथः । वि॒िऽनानाः । उप॑ । यन्तु । मृत्युम् ॥ ३ ॥ हे मित्रावरुणौ नः अस्माकम् इह अस्मिन् देशे अभयम् भयराहि- त्यम् अस्तु ॥ अर्चिषा तेजसा अत्रिण: अदनशीलान् राक्षसान प्रतीच: प्रत्यङ्मुखान् अस्मत्तः पराङ्मुखान् नुदतम् निरस्यतम् ॥ ते च निरस्ता: ज्ञातारम् अभिज्ञं स्वामिनं मा विदन्त मा लभन्ताम् । तथा प्रतिष्ठाम् आवासभूमिं मा लभन्ताम् । निराश्रया भवन्त्वित्यर्थः ॥ ते च मिथः परस्परं विघ्नानाः विहन्यमानाः मृत्युम मरणम् उप यन्तु उपगच्छन्तु ॥ १BK KV अशंरीत Tv with A BB DRŚPPJVC-CrP. २ J K पृष्ठी: Wo with PPCr. ३P. We with PPCr. • PP JCr वीर्याः, We with Sayana.