पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०: ०४. सू°३३.]२०६ षष्ठं काण्डम् | चतुर्थी ॥ यस्ये॒दमा रजो॒ युज॑स्तु॒जे जना॒ वनं॒॑ स्व॒ः । इन्द्र॑स्य॒ रन्त्यै बृहत् ॥ १ ॥ यस्य॑ । इ॒दम् । आ । रजः॑ । युज॑ः । तु॒जे । जना॑ः । वन॑म् । स्व॒ः । इन्द्र॑स्य॒ । र॒न्त्य॑म् । बृहत् ॥ १ ॥ 66 यस्येन्द्रस्य इदं रज: रञ्जकं ज्योतिः तुजे तोजनाय शत्रूणां हिंसनाय आ युजः आयोजयति आयुक्तं संनद्धं करोति तस्य इन्द्रस्य रन्त्यम् र मणीयं बृहत् परिवृढं वनम् वननीयं स्वः सुठु प्राप्तव्यं निरतिशयसुख- साधनं वा तेज: हे जनाः | यूयं भजध्वम् इति शेषः । इति । रज रागे इत्यस्माद् असुनि 'रजकरजनरज:सूपसंख्यानम् इति उपधालोपः । युज इति । युजिर् योगे । अस्माच्छान्दसे लुङि हे: अङ् आदेशः । तुजे इति । तुज हिंसायाम् । अस्मात् संपदादिलक्षणो भावे किप् । स्वरिति । सुपूर्वाद् अर्विच् । रन्त्यम् इति । रमु क्री- डायाम् । अस्मात् ‘क्तिचकौ च संज्ञायाम्' इति तिच् । “न क्ति- चि दीर्घश्च” इति अनुनासिकलोपदीर्घयोरभावः । अत एव अन्यत्राम्ना- "रन्तिर्नामासि दिव्यो गन्धर्वः" इति [ तै० आ°४. ११.५] । त त्रभवं ज्योतिः रन्त्यम् ॐ ॥ 66 तम् । " रज "" पञ्चमी ॥ नाधृ॑ष॒ आ द॑धृषते धृषा॒णो धृपि॒तः शवः॑ । पु॒रा यथा॑ व्यथि श्रव॒ इन्द्र॑स्य॒ नाधृ॑षे॒ शव॑ः ॥ २ ॥ न । आ॒ऽधृषे॒ । आ । धृषते । धृषा॒णः । धृषि॒तः । शवः॑ । पु॒रा । यथा॑ । व्य॒धिः । श्रव॑ः । इन्द्र॑स्य । न । आ॒ऽधृषे॒ । शवः॑ ॥ २ ॥ सच इन्द्रः नाधृषे नाधृष्यते अन्यैर्नाभिभूयते । स च धृषाणः धृष्टः सन् [धृषितः] 1. हु धृषित इति कर्तरि निष्ठा लिङ्गव्यत्ययः ॐ । र्षकं [ शवः ] बलम् आ दधृषते आधर्षयति अभिभवति । पुरा वृत्रासु- 18' आदधर्षयति.