पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये रवधकाले व्यर्थिं व्यथाकारि श्रवः श्रूयमाणम् इन्द्रस्य शव: बलं यथा नाधृषे अन्यैर्नाधृष्यतं । तथेदानीमपीति संबन्धः ॥ षष्ठी ॥ स नो॑ ददातु॒ तां र॒यिमु॒रु॑ पि॒शम॑संदृशम् । इन्द्र॒ पति॑स्तु॒वि॑िष्ट॑मो॒ जने॒ष्वा ॥ ३ ॥ सः । नः । द॒ातु । ताम् । र॒यिम् । उ॒रुम् । पि॒शङ्गेऽसंदृशम् । इन्द्र॑ । पति॑ । तु॒वत॑मः । जने॑षु । आ ॥ ३ ॥ स इंन्द्रः नः अस्मभ्यं तं रयिम् धनं दधातु प्रयच्छतु । कीदृशम् । उरुम् प्रभूतं पिशङ्गसँदृशम् पीतवर्णाभं वर्णप्रकर्षयुक्तम् । उत्कृष्टं काञ्च- नम् इत्यर्थः । कस्माद् एवम् उच्यते इति तत्राह इन्द्रः पतिरिति । स इन्द्रो जनेष्वा । & आकारः समुच्चये ४ । सर्वेषु च जनेषु देवमनुष्या दिषु पति: अधिपतिः इष्टप्रात्यनिष्टपरिहारयोः कर्ता | तुवित्तम: बहुतमः प्रभूततमः । सर्वप्रकारोत्कर्षवान् इत्यर्थः ॥ [इति ] षष्ठकाण्डे चतुर्थेनुवाके प्रथमं सूक्तम् ॥ 66 66 7 'माग्नये वाचम्" इति पञ्चर्चेन रक्षोग्रहजनितपीडानिवृत्तये समिदा- ज्यशष्कुल्यन्तानि त्रयोदश द्रव्याणि जुहुयात् । सूत्रितं हि । प्राग्नये [६. ३४] प्रेत: [७. ११९.२] इत्युपदधीत" इति [कौ० ४.७] ॥ “वैश्वानरो न ऊतये ”[ ६.३५] "ऋतावानं वैश्वानरम् ” [ ६.३६ ] इति तृचाभ्यां सर्वभैषज्यकर्मणि उदकहरिद्रासर्पिरादिकपायनद्रव्याणि अ- भिमन्य पाययेत् । “वैश्वानरीयाभ्यां पायनम् " इति हि सूत्रम् [ कौ● ४.७] ॥ अग्निचयने “वैश्वानरो न ऊतये ” इति तृचेन पुरीषांच्छन्नां चितिं ब्रह्मा अनुमन्त्रयेत । “वैश्वानरो न ऊतय इति [ चितिचितिं] पुरीधा- च्छन्नाम्" इति हि वैतानं सूत्रम् [वै० ५.२ ] ॥ 2 So PP J. Craska:. १ B वित्त॑मु॒ो SoSayana's text also 1 S' श्रवं. 25' 'धृष्यते. 33' पुरीपछिला.