पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अं॰३. सू° ५.] ४७३. दशमं काण्डम् । ७५३ पूर्वोक्तानि यान्युदकानि तान्येव चतुर्भुष्टिं वज्रं कल्पयित्वा शत्रुशिर छेदाय प्रक्षिपति स च शत्रोरङ्गानि भिनत्तु देवाश्च तत् सर्व मेऽनुजानन्वित्याशास्ते !! सांप्रदायिकास्तु वक्ष्यमाणप्रकारेण तस्मिन्नेव कर्मणि विनियुञ्जन्ति सूक्तम् । "" अभिचारकर्मणि उदवश्राणां विधानम् उच्यते । “इन्द्रस्योजः" इति सूक्तस्य आयानां पण्णाम् ऋचाम् पूर्वार्धचैः कांस्य- घटं प्रक्षालयति । “ जिष्णवे योगाय” इति उत्तरार्ध: षडि कांस्पघटम् उदकसमापे निदधाति । 'इदम् अहं यो मा प्राच्या दिश: " इत्यष्टचैन कल्पजेन सूक्तेन उदकमध्ये निदधाति घटम् । “इदम् अहम्" इति सूक्तेन उदकमध्ये घटस्य मुखं करोति । “इदमहं यो मा प्राच्या दिशः” इति सूक्तेन घटम् उदकपूर्ण कृत्वा अपक्कामति । "इदमहम्” इति सूक्तेन उदऋपूर्ण घटं मण्डपे स्थापयति । एतद् अभिचारे उदकाहरणम् । तदनन्तरं वज्रप्रहरणविधिः । “इन्द्रस्योजः" इति सर्वे कृत्वा "इदमहम्” इति स्थापनान्तं कृत्वा “ अमेर्भाग: ” [७-१४] इत्याद्यष्टाभिर्कग्भिः आनीतोदकस्य द्विधाकरणम् । अर्धे घंटे कृत्वा अर्ध भाजने करोति । तद्भाजनम् अग्नौ तापयति । घटम् अन्यस्मै पुरुषाय प्रदापयति । “अग्नेर्भाग: " इत्यादयोष्टी तापने मन्त्राः । ततो बहिर्दक्षिणामुख उपविश्य भाजनम् अमे कृत्वा “वातस्य रहितस्य " इति सौत्रमन्त्रेण उदकं संगृह्य “शम् अग्नये " इति क पजेन सूक्तेन सर्वेभ्यो मृतेभ्योऽभयं दद्यात् । " यो व आपोपाम् ” [१५] इत्यूचा वज्रप्रक्षेपः ॥ पुनरपि “वातस्य मंद्दिनस्य " इत्यादि कृत्वा “यो व आपोपामूमि: " [१६] इति ऋचा वज्रप्रक्षेपः । एवम् उत्तराभिरिभः [१७-२१] वज्रप्रक्षेपः | 'एनानधरानः पराच: " इति कल्पजया ऋचा भाजनस्थम् उदकं भूमौ निनयति । एवमेव “यं वयम् " [ ४२] इति सूक्तेन अन्यचम् “अपामस्मै दज्रम्" [५० ] इति ऋचा च वज्रप्रक्षेपः । “विष्णो: मोमि” [ २५-३६] इांत द्वादशभि- विष्णुक्रमान् क्रमते शत्रोरभिमुखम् । तद् उक्तं कौशिकेन । “इन्द्रस्योज इति प्रक्षालयति । जिष्णवे योगायेत्यपी गुनक्ति । "वातस्य रंहितस्यामृतस्य योनिरिति प्रतिगृह्णाति उत्तमाः प्रताप्याधराः प्रदायेनमेनानधराचः पचावा स्तमनयत ८" " "देवाः पितृभिः संविदानः प्रजापतिः प्रथमो देवनानाम् इत्यतिसृजति । इदम् अहं यो मा प्राच्या दिशोधायुरभिदामादपवा- 'दीदिपुगृहः | तस्येमी प्राणापानावपक्रामामि ब्रह्मणा । दक्षिणायाः प्रतीच्या उदीच्या ध्रुवाया व्यध्वाया ऊर्ध्वायाः | इदम् अहं “यो मा दिशाम् अन्तर्देशेभ्य इत्यपफ्रामामीति । एवम् अभिष्ठानापोद्दननिवेष्टनानि । सर्वाणि खलु शश्वद् भूतानि ब्राह्मण " 'वज्रम् उद्यमान छन्ते मां हनिष्यसि मां हनिष्यसीति । तेभ्योभयं वदेच्छम् अग्नये शं पृथिव्यै शम् अन्तरिक्षाय शं वायवे “शं दिवे शं सूर्याय शं चन्द्राय शं नक्षत्रेभ्यः शं गन्धर्वाप्सरोभ्यः शं मर्पतरजनेभ्यः शिवं मह्यम् इति । यो व आपोप यं " वयम् अपाम् अस्मै वम् इत्यन्चम् उदवतान् | विष्णोः क्रमोसीति विष्णुक्रमान्” इति [को० ६.३] ॥ “ यदर्वाचीनम्” इति ऋचा [२२] आचामयति अनृतभाषणसंजातपापापनोदनकामम् ॥ (6 "समुद्रं वः प्र हिणोमि " इति ऋचा [२३] पत्न्यअलावृदपात्रं निनयति सर्वेषु तत्रेषु | “बहिषि पत्न्यअली नियति समुद्र वः प्र हिणोमि " इति [को० १.६] सूत्रात् ॥ " " सूर्यस्पात्रतम्" इति पथभिः [२७-४१] प्रदक्षिणम् आवर्तते संयु तन्त्रेषु । “सूर्यस्याम् इत्यभिदक्षिणम् आव- तते ” इति [को॰ १. ६] सूत्रात् ॥ इन्द्र॒स्यौज॒ स्पेन्द्र॑स्य॒ सह॒ स्पेन्द्र॑स्य॒ बल॑ स्पेन्द्र॑स्य वी॒र्य॑ स्पेन्द्र॑स्य नृ॒म्णं स्य॑ । जिष्णवे योगाय ब्रह्मयोगेव युनज्मि ॥ १ ॥ i । इन्द्र॑स्य । ओजि॑ । स्थ॒ इन्द्र॑स्य | सह॑ः । स्थ॒ इन्द्र॑स्य॒ | वस॑म् । स्थ॒ । इन्द्र॑स्य । वी॒ी- र्य॑म् । स्थ॒ । इन्द्र॑स्य नृ॒म्णम् । स्थ॒ । १B वीर्यस्थे०. 1 So V₁ and V₂. 2 So Vi and V₂. 3 Vi g. We with V₁. 5 V: ब्राह्मणा. 6 V V2 °मानाः शंकते. 1 V V2 °टाना.